________________
हेतुलक्षणम्
४८३
व्यवच्छेदादीनामुदाहरणमाह। यथा चैत्रो धनुर्द्धरः। पार्थो धनुर्द्धरः। नीलं सरोजमिति (1) चैत्रे धनुर्द्धरत्वसन्देहाद् विशेषणेनायोगमानं व्यवच्छिद्यते पार्थे धनुर्द्धरत्वं प्रसिद्धमेव (1) किन्तु तादृशमन्यस्यापि किमस्तीति सन्देहेऽन्ययोगव्यवच्छेदफलं विशेषणं । न खलु सर्वमेव नीलं सरोज येना योगव्यवच्छेदः स्यात्। नापि सरोजमेव नीलं येनान्ययोगव्यवच्छेदो भवेत्। किन्तु नीलं सरोजं संभवति न वेत्यन्तायोगसंदेहे विशेषणेन स एव व्यवच्छिद्यते।
ननु भवतु तावच्चैत्रो धनुर्द्धर एव। पार्थ एव धनुर्द्धरः। सरोजं नीलं संभवत्येवेति निपातप्रयोगे विवक्षावशात् विशेषणादिपदानामेव वा व्यवच्छेदप्रतिपादकत्वादप्रयोगेऽपि निपातस्य चैत्रो धनुर्द्धर इत्यादिप्रयोगेषु योगव्यवच्छेदादीनां 98a प्रतीतिः। पक्षधर्म इत्यत्र पुनःपक्षो विशेषणं। धर्मो विशेष्यः। तद् यदि पक्षस्यैव
धर्म इति विशेषणेन सह निपात उच्यते अप्रयोगेपि वा विशेषणस्य तदर्थवृत्तितेष्यते। . उप (?) भयथाप्यन्ययोगव्यवच्छेदप्रतिपादकत्वमेव स्यात्। .. अथ धर्म एव विशेष्यो निपातसहचरः। तदर्थ वृत्तिद्वेष्ट: तदाऽयोगव्यवच्छेदो लभ्यत एव परं । विशेषणसहितोऽन्ययोगं व्यवच्छिनत्तीत्युक्तेविरुध्यते। अत्रोच्यते । बाह्यो निपातः श्रूयमाणोपि विशेष्यादिभिः सह वक्तृविवक्षावशाद् गम्यमानो वाऽयोगव्यवच्छेदको भवतीति दृष्टान्तप्रदर्शनार्थमुक्तं । तथैव चैत्रो धनुर्द्धर इत्याद्युदाहरणप्रदर्शनात्। व्यवच्छेदफलं वाक्यमित्युक्तेश्च। समासे तु विशेषणमेवायोगादिव्यवच्छेदकं विवक्षावशादिष्टं। अयोगव्यवच्छे देन विशेषणादित्युक्तेः। पक्षधर्म इति पक्षशब्दोऽयोगव्यवच्छेदकः। पक्षासम्बद्धो न भवतीत्यर्थः। चाक्षुषं रूपमिति चाक्षुषत्वस्य रूपे विवादाभावात् (1) शब्दादीनां विशेषणेन व्यवच्छेदः क्रियते। नीलोत्पलमिति। उत्पले नीलत्वनियमाभावात् (1) परेष्वभावादयोगान्ययोगयोर्व्यवच्छेदाभावात् नीलशब्देनात्यन्तासम्भवमानं व्यवच्छिद्यते। इति न कश्चिद्विरोधः। ___ ननु य°था पार्थ एव धनुर्द्धर इति विशेषणस्य सन्निधानात् निपातस्य विशेब्यान्तरव्यवच्छेदः । तथा विशेषणसन्निधानादवधारणस्य चैत्रो धनुर्द्धर एवेति. गुणान्तरव्यवच्छेद: स्यादित्याह।
प्रतियोगिव्यवच्छेदस्तत्राप्यर्थेषु गम्यते ।
तथा प्रसिद्धः सामर्थ्याद् विवक्षानुगमाद् ध्वनेः ॥१९३॥ तत्र विशेषणादिष्वर्थेषु व्यवच्छेदेपि क्रियमाणे प्रकरणाद् बुद्धिविषयीकृतस्य प्रतियोगिन एव व्यवच्छेदो विशेषणेन गम्यते नान्यस्य। तथा प्रसिद्धः प्रतियोगिन