SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ४८२ प्र० वा० वृत्तौ० (४ परिच्छेदः) पक्षधर्मस्य नवधा प्रभेदेन हेतुप्रकरणार्थस्य हेतुहेत्वाभासलक्षणात्मकस्य सुखेन ग्रहणस्य सिद्धये तदर्थवाचकानां सूत्राणां संक्षेपतः संग्रह उच्यते ॥ सपक्षे सन्नित्यादिना (1) ख. सूत्रे निपातग्रहणफलम् यदि पक्षस्य धर्मो हेतुस्तदा तद्विशेषणापेक्षस्य धर्मस्यान्यत्र धर्मिण्यननुवृत्तेरसाधारणता स्यात्। अथ पक्षेण न विशिष्यते तदा न पक्षधर्मो हेतु: स्यात् । असदेतत्। न ह्यन्ययोगव्यवच्छेदेनैव विशेषणमन्यथापि सम्भवादिति दर्शयितुमाह। . 3 अयोगं योगमपरैरत्यन्तायोगमेव च। - व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥१९०॥ निपात एवकारो व्यतिरेचकः नियामकः क्वचिद् धर्मस्य विशेषणस्यायोगं व्यवच्छिनत्ति क्वचिदपरैविशेष्यादन्यैर्योग व्यवच्छिनत्ति। क्वचिदत्यन्तायोगं व्यवच्छिनत्ति। ननु निपातो न स्वयं वाचकः किन्तु द्योतकः। तदस्य कथमयमर्थप्रभद इत्याह। २ विशेषणविशेषाभ्यां क्रियया च सहोदितः। ___ द्योतकत्वादेव निपातो विशेषणेन सहोदितोऽयोगस्य व्यवच्छेदकः। विशेष्येण सहोक्तोन्ययोगस्य। क्रियया च सहोक्तोऽत्यन्तायोगस्येति विशेषणादिपदवाच्य एवायोगव्यवच्छेदादिस्तत्सहोक्तनिपातद्योत्य इत्यर्थः । भवतु तावन्निपातप्रयोगे व्यवच्छेदविशेषस्य प्रतीतिः पक्ष १ इत्यादौ तु कथमित्याह। विवक्षातोऽप्रयोगेपि सर्वोऽयं प्रतीयते ॥१९१॥ व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः । ३ पार्थो धनुद्धरो नीलं सरोजमिति वा यथा ॥१९२।। अप्रयोगेपि निपात स्य वक्तुविवक्षातः सर्वोयमयोगव्यवच्छेदादिरर्थः प्रतीयते। यतो व्यवच्छेदफलं वाक्यमित्युक्तं प्राक् । वाक्यञ्चोपलक्षणं पदमपि व्यवच्छेदफलं। न हि घटेनोदकमानयेति प्रतिपदमनवधारणेऽघटेनानयनप्रतिषेधः । पक्ष इत्यादौ तु कथमित्याह। अप्रयोगेपि निपातस्य वक्तुविवक्षातः सोयमयोगव्यवच्छेदोऽनुदकानयनप्रतिषेधः । अनानयननिवृत्तिा शक्योपदर्शना। अयोग '... पक्षधर्मः।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy