________________
सामान्यचिन्ता
४७९ 'सर्वत्र तुल्यो दोषः। नहि शब्दादन्यत् नित्यत्वं कृतकत्वम्वा। अनित्य- 96a त्वासिद्धौ च यथा नित्यः साध्यस्तथा तदात्मवान् कृतकोपि शब्दोऽसिद्ध ऐवति चेत्। नैष दोषः (।) संवृत्त्या भिन्नव्यावृत्तिविषयया साध्यसाधनधर्मिणो विशेषतो भेदात् । यथा स्वं विकल्पैः संकेतवासनानुगमनियमितैकैकवृत्तिमात्रविषयार्थः शब्दत्वकृतकत्वनित्यत्वाद्यसंकीर्णान्येव धर्मिसाधनसाध्यतया व्यवस्थाप्यन्त इति न दोषः । यदि धर्ममिविवेकोऽस्त्येव तदा तत्त्वान्यत्वप्रतिषेधः कथं कृत इत्याह ।
परमार्थविचारेषु तथाभताप्रसिद्धितः ॥
तत्त्वान्यत्वं पदार्थेषु सांवृतेषु निषिध्यते ॥१८२।। सांवृतेषु कल्पनाविषयेषु धर्मिधर्मादिषु तत्त्वान्यत्वं परमार्थस्य तत्त्वस्य विचारेषु निषिध्यते तथाभूतस्य यथाकल्पनं परस्परतो भिन्नस्य धर्मिधर्मादेः प्रमाणेनाप्रसिद्धितः। न तु सांवृतोपि तेषां भेदाभावः। न चेयता कल्पिते मिणि कल्पितात् साधनात् कल्पितस्य साध्यस्य सिद्धिरित्यनुमा नादवस्तुप्रतीत्यभावप्रसङ्गः। अशब्दव्यावृत्त्या निश्चितस्य वस्तुन एव धर्मित्वात् । एवं कृतकत्वानित्यत्वाभ्यां निश्चितस्य तस्यैव साधनत्वात् साध्यत्वाच्चेत्युक्तेः। अन्योन्यस्य तेषां भेदः पुनः कल्पित एव।
अनुमानानुमेयार्थव्यवहारस्थितिस्त्वियम् ।
भेदं प्रत्ययसंसिद्धमवलम्ब्य च कल्प्यते ॥१८३॥ अतोनुमानहेतुत्वादनुमानस्य लिङ्गस्यानुमेयार्थस्यानयोरुपलक्षणत्वात् (।)
धर्मिणश्च व्यवहारस्थितिस्त्वियमनित्यः कृतकत्वादित्यादौ क्रियमाणा तेषां परस्परतो भेदं प्रत्ययेन विकल्पकेनैकव्यावृत्तिमात्रविषयेण संसिद्धं निश्चितं । अवलम्व्याश्रित्य च कल्प्यते॥
यथा स्वं भेदनिष्ठेषु प्रत्ययेषु विवेकिनः ।
धर्मी धर्माश्च भासन्ते व्यवहारस्तदाश्रयः ॥१८४॥ तथाहि यथा स्वं यस्य य आत्मीयो ग्राह्यो भेदो व्यावृत्तिस्तनिष्ठेषु विकल्पेषु विवेकिनो धर्मी धर्माश्च साध्यसाधनादयो भासन्ते । तदाश्रयो विकल्पगोचराश्रयो धर्मिधर्मादिभेदस्य व्यवहारः प्रवर्तते॥
'स्वभावहेतौ।