________________
प्र० वा० वृत्तौ० (४ परिच्छेदः)
सर्वश्रुतेरेकवृत्तिनिषेधः स्यान्न चेयता । सोसर्वः सर्वभेदानामतत्त्वे तदसम्भवात् ॥१७९॥
यथा च क्वचित् प्रकरणे शिशपामात्रवृक्षत्वप्रश्नहेतौ यथा वृक्षो न शिशपैवेति शिंशपामात्रवृक्षत्वनिषेध इष्टः । तथा निःशेषवस्तुसंग्राहिकाया : सर्व्वश्रुतेरेकत्र शब्दमात्रवृत्तिनिषेधः स्यात् ( 1 ) न चेयता स शब्दोऽसर्व्वः सर्व्वान्तर्गमात् तस्य । प्रत्येकं सर्व्वेषां भेदानां विशेषाणामतत्वेऽसर्व्वत्वे तस्य सर्व्वस्यासम्भवात् ।
४७८
अथ पारिभाषिकं सर्व्वत्वं शब्दादितरत्वं तथाऽसर्व्वत्वं शब्दे सिद्धमेवेति चेत्। तदयुक्तं' (।) एवं हि सर्व्वत्वमेव सर्व्वशब्देनोक्तं स्यात् । तथाऽप्रसिद्धतैव। तथा हि । ज्ञाप्यज्ञापकयोर्भेदात् धर्मिणो हेतुभाविनः । असिद्धेर्ज्ञापिकत्वस्य धर्म्यसिद्धः स्वसाधने ॥१८०॥
ज्ञाप्यज्ञापकयोर्भेदात् कारणात् साध्याभिन्नं साधनं वक्तव्यं । ततो धर्मिणो हेतुत्वेन भाविनो हेतुर्भविष्यतो नित्यत्वेन साध्यत्वात् । ज्ञापकस्यासिद्धेः कारणात्। धर्मी साध्यत्वात् स्वस्य साधनेऽसिद्धः । असिद्धं हि साध्यं । सिद्धञ्च साधनं । अनयोः कथमैकात्म्यं ॥
ननु शब्दत्वं सिद्धमेव । नित्यवत्तया तु तदसिद्धं साध्यते । न च तथैव तत्साधनं । शब्दत्वमात्रेण साधनत्वात् । तत्कथन्धर्मी स्वसाधनेऽसिद्ध उच्यते ॥ अयमभिप्रायः। न शब्दत्वमित्येव गमकत्वं किन्तु साध्यप्याप्तं तस्य चासाधारणत्वेन नान्यत्र व्याप्त्युपलम्भः। ततश्चान्यत्रानित्यत्वनियमात् शब्दे शब्दत्वं नित्यताव्याप्तं सद्धेतुर्व्वक्तव्यः । तथा च य एव साध्यः स एव हेतुरिति साध्यसिद्धेर्हेत्वसिद्धिश्चेति युक्तमुक्तं धर्म्यसिद्धः प्रसाधन इति ।।
ख. सामान्यनिरासः
धर्मधर्मिविवेकस्य सर्वभावेष्वसिद्धितः ।
सर्वत्र दोषस्तुल्यश्चेन्न संवृत्या विशेषतः || १८१ ॥
नन्वेवं सति सर्व्वत्र भावेषु धर्मयोः साध्यसाधनयोर्द्धर्मिणश्च विवेकस्य भेदस्यासिद्धित: २८
I
" शब्दोऽसर्व्व इति पर्यायाः । तथा च यथा नित्यः शब्दः शब्दत्वादिति प्रतिज्ञार्थैकदेशो हेतुरसिद्धस्तथेहाप्यसिद्धिरिति समुदायार्थः ।
२ तत्रैव -- उपरिमस्य पतितमेतत् ।