________________
सामान्यचिन्ता
४७७
विशेषविहितस्य सर्व्वानित्यत्वेन सामान्यविहितेन बाधाशङ्का नास्तीति कथं प्रतिज्ञाहेत्वोव्विरोधः । यदि शब्दव्यतिरिक्तस्य सर्व्वस्यानित्यत्वमिष्टं न स्यात् ( 1 ) तदा सर्व्वस्यानित्यत्वादिति सामान्येनानुवर्त्तने किं फलं स्यात् । नित्यः शब्दः शब्दस्यानित्यत्वादित्येव वाच्यं । एवं विरोधस्य वक्तव्यत्वात् शब्द एवोदाहरणम्भविष्य तीति चेत् । नानुन्मत्त एवं ब्रूयात् । यद्यात्मनोऽनित्यत्वं हेतुः सिद्धः । कथं तद्विरुद्धं साध्यं (1) तत्रैव प्रतिजानीयात् । अथासिद्धस्तदा हेतुदोष एवासौ न प्रतिज्ञादोषः (1) तस्मान्नास्ति शब्दे नित्यत्वं । अतः स्वविरोधिनर्माप निराकर्त्तुमशक्तं । स्यान्निराकरणं शब्दे स्थितेनैवेत्यतोब्रवीत् ।
"
8
अत एवाचार्य शब्देस्थितेनैवानित्यत्वेन निराकरणं नित्यत्वस्य स्यादित्यब्रवीत् । तदा च स्यादत्र प्रतिज्ञार्थस्य निराकरणं ॥
4
यदि नित्यः ≠ शब्दः सर्व्वस्यानित्यत्वादिति वैधर्म्यदृष्टान्तोपदर्शनमेतत् । यथा नित्यत्वविशिष्ट शब्द इति । तदा हेतु निर्देशोन स्यादित्याह ( 1 ) अ ' सर्वश्च शब्द इत्युपनयाद्धेतुर्वक्तव्यः ।
विरुद्धविषयेन्यस्मिन् वदन्नाहान्यतां श्रुतेः ॥१७७॥
तथाहि नित्यत्वस्य विश्रुद्धं शब्दादन्यस्मिन् वदन् सर्व्वस्मादन्यतां श्रुतेः' 95b शब्द स्याह ।
स च भेदोप्रतिक्षेपात् सामान्यानान्न विद्यते ।
स च सर्व्वस्माद् भेदोऽसर्व्वलक्षणः शब्दस्य न विद्यते (1) सामान्यानां व्यापिनां भेदस्याप्रतिक्षेपात् स्वीकारात् ( 1 ) निः शेषार्थसंगृहीतत्वात् सर्व्वशब्दो न किञ्चित् परिहरति ।
ननु सामान्यानां विशेषप्रतिक्षेपो दृश्यत एव । यथा किं शिशपैव वृक्षो न वेतिं प्रश्ने कथ्यते न शिशपैव वृक्षः । तदा शिशपावृक्षत्वप्रतिक्षेपो भवत्येव । असदेतत् । न हि तत्र शिंशपावृक्षत्वं निषिध्यते किन्तु शिशपैव वृक्ष इति नियमः प्रतिक्षिप्यते (1) तदितरस्यापि वृक्षत्वात् ।
वृक्षो न शिशपैवेति यथा प्रकरणे कचित् ॥१७८॥
' साधर्म्यवैधम्र्योदाहरणापेक्षः तथा न तथेति पक्षधर्मोपसंहार उपनय इह तु वैधर्म्यापनयः । यदाह तस्मात् सर्वत्वान्नानित्य इति ।
२ सर्वमनित्यत्वेन व्याप्तं शब्दमनित्यत्वात्ततोऽन्य इत्यसर्वत्वं हेतुः स्यात् ।