________________
४७६
प्र० वा. वृत्तौ० (४ परिच्छेदः) हेतुना साध्यधर्मस्यानुपकारोऽनिश्चायनं वा स्यात् । धर्मिणि साध्येन सहास्थिति स्यात् । तत्र यदि हेतोः साध्ये प्रतिपादकत्वाभावात् प्रतिज्ञादोष उच्यते (1) एवं सति सर्वेषामङ्गस्य हेतोर्दोषाणां प्रतिज्ञादोषता भवेत् सहेतुदोषैः प्रतिज्ञाया एव व्याहननात्।
पक्षदोषः परापक्षो नेति च प्रतिपादितम् ।
इष्टासम्भव्यसिद्धश्च स एव स्यान्निराकृतः ॥१७४॥ प्रतिज्ञामात्रभागी च पक्षदोषः । परापेक्षः साधनादिसापेक्षः न दोष इति च प्रतिपादितं प्रागुत्तरा वयवापेक्षो न दोषः पक्ष इष्यत इत्यादिना। अथ सहास्थितिस्वभावो विरोधः। तदेष्टे पक्षेऽसम्भवी हेतुदोष एवायं न पक्षदोषः। अथ तेन हेतुना प्रतिज्ञार्थनिराकरणात् प्रतिज्ञाविरोधः पक्ष दोष एव (1) तच्चायुक्तं तथा हि (1) साध्यधर्मो धर्मिण्येवं निराकृतः स्यात् ।
अनित्यत्वसहेतुत्वे शब्द एवं प्रकीर्तयेत् ।
दृष्टान्ताख्यानतोऽन्यत् किमस्त्यत्रार्थानुदर्शम् ॥१७५॥ ___ यदि शब्दे धर्मिण्यनित्यत्वेन धर्मेण सहेतुत्वे प्रतिपाद्य एवं सर्वस्यानित्यत्वादि. 97a प्रकीर्तयेत् । न चेदृशं वादिनो विवक्षितं सर्वस्य परस्यानित्यत्वात्। शब्दो नित्य
इति विवक्षितत्वात् । तथा च सामान्यविशेषभावाद् विरोधभावः । भवतु वा शब्देऽनित्यत्वनिराकरणं विवक्षितं (1) तथापि प्रमाणबाधैवापक्षतेति न प्रतिज्ञाविरोधो नाम पक्षदोषः तस्माद्धत्वर्थतानुपपत्तेः सर्वस्यानित्यत्वादित्यत्र वैधाण दृष्टान्ताख्यानतोऽन्यदर्थानुदर्शनं किमस्ति । वैधर्म्यदृष्टान्त एव 1 सुशिक्षितरित्थमाख्यातः । सर्वस्य नित्यत्वे व्याप्तिदर्शनार्थं यदि पुनर्वधर्म्यदृष्टान्तोपदर्शनमतन्न भवति (1) तदा।
(५) सामान्यचिन्ता
क. सामान्यानुवर्त्तने निष्फलम् विशेषभिन्नमाख्याय सामान्यस्यानुवर्त्तने ।
न तद्व्याप्तिः फलं वा किं सामान्येनानुवत्तने ॥१७६॥ विशेषेण शब्दे भिन्नं नित्यत्वमाख्याय सर्वस्यानित्यत्वादिति व्यापित्वात् सामान्यस्यानित्यत्वस्यानुवर्त्तने क्रियमाणे तस्यानित्यत्वस्य व्याप्तिरशेषपदार्थग्रहो न भवति । यथा कौण्डिन्यस्य तक्रदानं विहितं ब्राह्मणेभ्यः सामान्येन विहितदधिदानेन न बाध्यते। प्रकल्प्याप वादविषयमुत्सर्गस्य प्रवृत्तेः। तथा शब्दे नित्यत्वस्य