________________
सामान्यचिन्ता
पूर्वावधारणे तेन प्रतिज्ञालक्षणाभिधा । व्यर्था व्याप्तिफला सोक्तिः सामर्थ्याद्गम्यते ततः ।। १७२ ।।
४७५
तेनातिप्रसंगाभावेन पूर्वस्य पदस्यावधारणे प्रतिज्ञालक्षणाभिधा व्यर्था । ततः पारिशेष्यात् सामर्थ्यात्साध्यनिर्देशः प्रतिज्ञैवेत्ययोगव्यवच्छेदफलमुत्तरपदावधारणं स्यात् । तथाचासिद्धहेतुदृष्टान्तादावपि प्रतिज्ञात्वं दुर्वारं । असिद्धस्य साधनाङ्गस्य कथमपि प्रतिज्ञात्वायोगताविरहात् निरस्तं प्रतिज्ञालक्षणं । ( १७२)
परस्य प्रतिज्ञाभासलक्षणं संप्रति निराकरणीयं ( 1 ) हेतुप्रतिज्ञयोर्व्याघातः प्रतिज्ञादोषो मतः । यथा नित्यः शब्दः सर्वस्य नित्यत्वात् । यदि सर्वमनित्यं तदा शब्दस्यापि सर्वत्रान्तर्भावात् कुतो नित्यता । अथ शब्दो नित्यः कथं सर्वस्या नित्यतेति प्रतिज्ञाहेत्वोर्विरोधात् । प्रतिज्ञाविरुद्धतादोषः ।
विरुद्धतेष्टासम्बन्धोऽनुपकारसहास्थिती ।
एवं सर्वाङ्गदोषाणां प्रतिज्ञादोषता भवेत् ॥१७३॥ विरुद्धता चेष्टस्य साध्यधर्मस्य धर्मिण्यसम्बन्धो नाम । स च विचार्यमाणो
सर्व्वस्यानित्यत्वादिति प्रकीर्तयेत् । न चैवं ( 1 ) हेतुलक्षणाभावात् । वैधर्म्यदृष्टान्तः परमत्र । अतोन्यत्र किञ्चिदर्थस्य प्रदर्शनं ।
तथाहि (1)
विशेषे भिन्नमाख्याय सामान्यस्यानुवर्त्तने ।
न तद् व्याप्तिः फलं वा किं सामान्येनानुवर्त्तने ॥१७६॥ विशेषे शब्द एव भिन्नं विरुद्धं नित्यत्वमाख्याय सर्व्वस्यानित्यत्वादिति सामान्यस्यानुवर्त्तने । न तस्य शब्दस्य विशेषस्य व्याप्तिरनित्यताप्राप्तिव्विशेषपरिहारणैव वृत्तेः तक्रं कौण्डिन्याय ब्राह्मणेभ्यो दधि दीयतामितिवत् । शब्दे नित्यत्वं विधाय सर्व्वानित्यत्वमुच्यमानं न तमास्कन्दति अतः शब्देऽनित्यत्वमभवत् कथं स्वविरुद्धमपाकुर्यात् ।
यदि शब्दव्यतिरिक्तस्यानित्यत्वं नेष्टं स्या (त्) तदा फलं वा किं सामान्यानुवर्त्तने सर्व्वस्यानित्यत्वादिति । शब्दस्यानित्यत्वादित्येव वाच्यं एवं हि स्फुटो विरोधः स्यात् (1) तस्मान्न शब्देऽनित्यत्वं ( 1 ) ।
स्यान्निराकरणं शब्दे स्थिते नैवेत्यतोत्रवीत् ।
अत एवा चार्योऽब्रवीत् समुच्चये “ स्यान्निराकरणं शब्दानित्यत्वेनेति ।" XX