________________
प्र० वा० वृत्तौ० (४ परिच्छेदः)
(४) प्रतिज्ञालक्षणे दोषः
नचासिद्धे हेतुदृष्टान्तादिके प्रतिज्ञार्थप्रसंगः। तथा हि । हेत्वादिवचनैः पृथक् लक्षणप्रतिपादकैर्व्याप्तेर्विषयि' कृतत्वात् साधनं हेतुदृष्टान्तं असिद्धं च प्रतिज्ञार्थे वाऽनाशक्यं । (१७१)
४७४
प्रतिज्ञाहेत्वोव्विरोधो नोक्तः पक्षाभाषे ( ? से) ष्वित्यव्याप्तिलक्षणमिति नैयायिकावकाशं मत्वा चा र्यो क्तं व्याख्यातुमाह । प्रतिज्ञाहेत्वोव्विरोधः प्रतिज्ञादोष इति यथा नित्यः शब्दः सर्व्वस्यानित्यत्वात् । अत्र यदि शब्दो नित्यः सर्व्वस्यानित्यत्वं विरुद्धमिति प्रतिज्ञया हेतोव्विरोधः । सर्व्वानित्यत्वे तदन्तर्गतत्वाच्छब्दस्येति हेतुर्न प्रतिज्ञाविरोधः । उत्तरमाह ( 1 )
विरुद्धतेष्टासम्बन्धोऽनुपकारसहास्थिती ।
एवं सर्वाङ्गदोषणां प्रतिज्ञादोषता भवेत् ॥१७३॥
इष्टेनार्थेना' सम्बन्धो विरुद्धतात्र स्यात् । सा चानुपकारसहास्थिती । . हेतुस्तत्राभावात् साध्यं नोपकरोतीति वा स्थितहेतुना इष्टधर्मविरोधात् सहा*नवस्थानम्वा स्यात्। तत्र नानुपकारः । यदि हेतौ दुष्टे साध्योपरोधात् प्रतिज्ञादोष एवं सर्व्वलिङ्गदोषाणामसिद्धादीनां प्रतिज्ञादोषता स्यात् ।
पक्षदोषः परापेक्षो नेति च प्रतिपादितम् ।
इष्टसम्भव्यसिद्धश्च स एव स्यात् निराकृतः ॥ १७४॥ उत्तरावयवापेक्षः पक्षदोषो न भवतीति प्रागेवोक्तं ।
अथेष्टेन साध्यधर्मेणासम्भवी सहानवस्थायी हेतुव्विरुद्धः । तन्न ( 1 ) इष्टासम्भव्यसिद्धश्च स्याद् हेतुदोषो न पक्षे । निराकृतो हेत्वाभासेष्वेवोक्तत्वात् । अधुना हेतुप्रयोग एवायं नित्यात् । न सर्व्वानित्यत्वेन शब्दे नित्यत्वनिराक्रिया यतो विरोधः स्यात् ( 1 ) यस्मादेवं स साध्यधर्मो निराकृतः स्यात् ।
अनित्यत्वसहेतुत्वे शब्द एवं प्रकीर्त्तयेत् ॥ दृष्टान्ताख्यानतोऽन्यत् किमस्त्यत्रार्थानुदर्शनम् ॥१७५॥
यद्यनित्यत्वं शब्दे स्यात् । ततोऽनित्यत्वसहेतुत्वे सति शब्दे एवं नित्यः शब्दः
१ साध्यधर्मेण ।