________________
४७३
प्रतिज्ञालक्षणे दोषः असंभवात् साध्यशब्दो धर्मिवृत्तिर्यदीष्यते ।
शास्त्रेणालं यथायोगं लोक एव प्रवर्त्तताम् ॥१७०॥ यथोत्पत्तिमत्वादेः समुदायधर्मत्वासंभवार्मिधर्मत्वसंभवाच्च साध्यशब्दो यदि धमिवृत्तिरुपचारादिष्यते तदा शास्त्रेण दुर्विहितेनालं लोक एव यथाक्रम यथायोगं यस्य यादृशं लक्षणं युक्तं तदवधार्य प्रतिज्ञाहेत्वादिषु प्रवर्ततां । यत्तु पक्षो धर्मी अवयवसमुदायोपचारादित्यस्माभिरुच्यते । तत्सर्व धमिधर्मप्रतिषेधार्थ उपचारयोग्यपरिग्रहार्थं । तस्मादयुक्तं परस्य प्रतिज्ञालक्षणं । (१७०)
किञ्च ।
सर्ववाक्यानामवधारणफलत्वात्साध्यनिर्देश एव प्रतिज्ञेति पूर्वपदावधारणं वा स्यात्। साध्यनिर्देशः प्रतिज्ञैवेत्युत्तरपदावधारणं वा स्यात् । तत्र प्रथमपक्षे सिद्धनिवृत्याऽसिद्धपरिग्रहः प्रयोजनं । तच्चान्यथापि लभ्यते । तथा हि ।
साधनाख्यानसामर्थ्यात्तदर्थे साध्यता गता।
हेत्वादिवचनैर्व्याप्तेरनाशक्यं च साधनम् ॥१७१॥ सिद्धेऽपि साधनोपन्यासोऽनुपयुक्त इति साधनाख्यानसामर्थ्यात् तस्याः प्रतिज्ञाया अर्थेऽसिद्धे साध्यता प्रतीता प्रतिज्ञालक्षणं विनापि।
धर्मसामान्यस्य दृष्टान्तेपि कथनार्थं जिज्ञासितविशेषो धर्मीति लक्षणं युक्तं। न च साध्यशब्दस्यासिद्धदृष्टान्तादौ प्रसङ्गात् पक्षत्वन्तूपचारात्॥ किञ्च (1) अत्र साध्यनिर्देश एव प्रतिज्ञेति पूर्वावधारणन्तावन्न भवति ।
साधनाख्यानसामर्थ्यात् तदर्थे साध्यता गता।
हेत्वादिवचनाप्तेरनाशङ्क्यं च साधनम् ॥१७१॥ यस्मात् तदर्थे सिद्धनिवृत्त्याऽसिद्धग्रहार्थे साध्यता गम्यत एव (1) सिद्धसाधनवैयर्सेन साधनञ्चोक्तमत्रेति तत्सामर्थ्यात् ।
अपि च साध्यनिर्देश एव प्रतिज्ञेति पूर्वावधारणे साधनं न प्रतिज्ञेति साध्यं (1) तच्चानाशङ्कयं तस्य हेतूदाहरणोपनयाद्यैरेव व्याप्तत्वात् (1)
पूर्वावधारणे तेन प्रतिज्ञालक्षणाभिधा।
व्यर्था व्याप्तिफला सोक्तिः सामर्थ्याद् गम्यते ततः ॥१७२॥ तेन पूर्वावधारणे प्रतिज्ञालक्षणाभिधा व्यर्था। ततः कारणात् सामर्थ्यात् साध्यनिर्देशः प्रतिजैवेत्युत्तरावधारणोक्तिर्व्याप्तिफलाऽयोगव्यवच्छेदफला। इत्यसिद्धहेत्वा (दे) रपि प्रतिज्ञात्वप्रसङ्गः॥