________________
४७२
प्र० वा. वृत्तौ० (४ परिच्छेदः) अथ धर्मी साध्यः तदोदाहरणसाधात् साध्यसाधनं हेतुरिति हेतुलक्षणं न युज्येत । न हि शब्दो धर्मसिद्धो येन तत्साधनात् साध्यसाधनो हेतुः स्यात् ।
अथो भयं साध्यं तदोभयपक्षभाविदोषप्रसङ्गः। समुदायस्यासिद्धत्वात् स एव साध्य इत्याह।
समुदायस्य साध्यत्वेप्यन्योन्यस्य विशेषणम्।
साध्यं द्वयं तदाऽसिद्धं हेतुदृष्टान्तलक्षणम् ॥१६९॥
समुदायस्य साध्यत्वेपीष्यमाणेऽन्योन्यस्य परस्परं विशेषणम्वक्तव्यं । धर्मवि- . 96b शिष्टो* धर्मिविशिष्टो वा साध्यः। यथा शब्दविशिष्टमनि'त्यमिति तथाच
द्वयं साध्यं स्यात् । तदा द्वयसाध्यत्वाभ्युपगमे तु हेतुदृष्टान्तयोर्लक्षणमसिद्धं स्यात् । न हि धमिधर्मविशिष्टेन धर्मेणानित्यशब्दसम्बन्धिना उत्पत्तिमत्वादिना घटादेः साधर्म्यमस्ति येन दृष्टान्तता भवेत् । तथा धर्मविशिष्टे मिणि प्रागनुमानाद्धेतुरपि न कस्यचित् सिद्ध इति हेतुलक्षणं च न स्यात्। (१६९)
१ पृथक् पृथक् चतुर्थः समुदायपक्षो वक्ष्यमाणः । २ यथा सर्वमनित्यं न च सव्वं शब्दः इत्यसर्वत्वान्नित्यः।
* अत्र पतितमधःपत्रपृष्टेस्ति कुण्डलीकृतं। 954 तदा चासिद्धं हेतुलक्षणं धर्मिधर्मसमुदायधर्मेणोत्पत्तिमत्वादिनोदाहरणसाध ाभावात् । वृष्टान्तलक्षणमप्यसिद्धं दृष्टान्ते धर्ममिसमुदायेन साधाभावात्।।
असंभवात् साध्यशब्दो धर्मिवृत्तिर्यदीष्यते ।
शास्त्रणालं यथायोगं लोक एव प्रवर्तताम् ॥१७०॥ अथोत्पत्तिमत्वादेः समुदायधर्मत्वाभावात् साध्यशब्दो धमिवृत्तिरिष्यते यथा बौ द्धे नोक्त उपचारात्। तदा शास्त्रेण लक्षणेनालं किं प्रयोजनं प्रसिद्धत्वात् यथायोगं बुद्धा लोक एव प्रवर्त्ततां (1) सविकल्पकं हि ज्ञानं तस्य प्रसिद्धं । बौद्धस्तेन लोकसिद्धमनुवदति किन्तु न्या'यमिति तस्य पक्षकदेशयोग्यर्मिणो
१[आदर्शपुस्तकस्थकुण्डलीकृतो धमिविशिष्टो वा साध्यः' इत्यादि 'यदि नित्यः शब्दः सर्वस्यानित्यत्वादिति वैधर्म्यदृष्टान्तोपदर्शनमेतत्' इत्यन्तग्रन्थांशोऽत्र यथानुक्रममेवोद्धृत्य योजितः।]
२१७०-१७७ कारिकाणां व्याख्यान्तरमादर्शपुस्तकस्थमधो विन्यस्तम्।