________________
नैयायिक पक्षलक्षणे दोषः
सर्वस्य चाप्रसिद्धत्वात् कथञ्चित् तेन न क्षमाः । कर्मादिभेदोपक्षेपपरिहाराविवेचने ॥१६७॥
४७१
सर्व्वस्य प्रतिज्ञाहेतुदृष्टान्तादेश्चाप्रसिद्धत्वात् । साधयितुमीप्सिततमत्वेनाभ्युपगमात् कर्मत्वं (1) कर्म च साध्यं प्रतिज्ञेति प्रतिज्ञात्वप्रसङ्गो दुर्व्वारः । अभ्युपगमश्च यथा नित्यत्वे तथा मूर्त्तत्त्वादावपि शास्त्राभ्युपगमयोश्च भेद: प्रागुक्तस्तेन कर्मत्वाविशेषेण साध्यं कर्म साधनं करणमिति कर्मादिभेदस्योपक्षेपेणोपन्यासेन परिहाराविवेचने साध्यविशेषावगमापने कथञ्चिन्न क्षमाः । (१६७ ) यद्यप्युच्यते यः साध्योऽवयवः १ तस्य निर्देशः प्रतिज्ञा । ततो हेत्वादेः सिद्धस्यावयवस्य न प्रतिज्ञात्वमिति । तदप्यसत् I
२
किञ्च
प्रागसिद्धस्वभावत्वात् साध्योवयव इत्यसत् । तुल्या सिद्धान्तता ते हि येनोपगमलक्षणाः ।।१६८॥
लक्षणवचनात् प्राक् ° साध्यासाध्ययोरसिद्धस्वभावत्वात् । लक्षणेन हि साध्यता प्रतिपत्तव्या त्रिकालविषयत्वात् ( 1 ) कृत्यप्रत्ययस्य साधयिष्यमाणेपि साध्य इति (1) साधनं च साध्यं स्यात् । सिद्धान्तता हेतुदृष्टान्तादेरपि तुल्या । हि प्रतितन्त्रादिसिद्धान्ता येन कारणेन उपगमलक्षणा अभ्युपगमस्वभावाः । यथा हि नित्यत्वमभ्युपगम्यते तथा मूर्त्तत्वादिकमपीति न विशेष: । ( १६८ )
95b
किञ्च साध्यो' धर्मो धर्मी द्वयम्वा स्यात् । यदि धर्मस्तदा साध्यसाधर्म्यात् तद्धर्मभवी दृष्टान्त उदाहरणमिति । दृष्टान्तलक्षणं विरुध्यते । न हि साध्यधर्मस्या - नित्यत्वादेर्द्धर्म उत्पत्तिमत्वादिः ( 1 ) किन्तु शब्दस्य ( 1 ) ततः साध्यधमण साधर्म्यात् दृष्टान्तस्य तद्धर्मभावित्वं साध्यधर्मोत्पत्तिमत्वादिभाववत्वं नास्ति ।
' प्रतिज्ञादिषु प्रक्रान्तेषु साधनविषय एव यः साध्यावयवः । तथा यदि साध्यं वस्तुत एव साधनाद्भेदेन स्यात् न चैवं ।
यद्यपि तदा नाभ्युपगता सिद्धान्तता तथापि कृत्यप्रत्यनिर्देशादेवाभ्युपगन्तव्येन्तर्भावः ।
४ अतिव्याप्तिमुक्त्वान्यदप्याह ।
नैयायिकस्य ।
६ उत्पत्तिमान् शब्दो घटश्चेति साध्यसाधर्म्यं ततः साधयितुमिष्टो धर्मस्तद्धर्मः तस्य भावः सत्ता । सोस्यास्तीति धर्मस्य धर्मान्तरासम्बन्धात् स्वरूपहानिप्रसङ्गाच्च । दृष्टान्तस्यापि तद्धर्मभावित्वं नास्ति ।