________________
४७०
प्र० वा. वृत्तौ० (४ परिच्छेदः) मुपन्यस्तं वादिना यत्नतः साध्यं । यद्यपि शब्दे मूर्त्तत्वं नास्ति (अनिष्टञ्च साध्यत्वेन) तथापि हेतुदृष्टान्तयोरुपन्यासादवश्यं साध्यं। साध्यनिर्देशश्च प्रतिज्ञेति प्रतिज्ञात्वञ्च दुरिं। (१६४)
(साध्यशब्दचिन्ता) प्रत्यायनाधिकारे तु सर्वासिद्धावरोधिनी।
यस्मात् साध्यश्रुतिर्नेष्टं विशेषमवलम्बते ॥१६५॥ प्रत्यायनस्य ज्ञापकस्य हेतोरधिकारे तु साधनस्य सर्वस्याभ्युपगमहेतुदृष्टान्तादेरसिद्धावरोधः संग्रहः (1) तद्वती यस्मात् साध्यश्रुतिरिष्टं विशेषं न साध्यत्वेनावलम्बते परिगृह्णाति ॥ (१६५) येन प्रत्यायनाधिकारे' साधनस्यासिद्धस्य पक्षत्वप्रसङ्गः (1)
तेनाप्रसिद्धदृष्टान्तहेतूदाहरणं कृतम् ।
अन्यथा शशशृङ्गादौ सर्वासिद्धेऽपि साध्यता ॥१६६।। तेनाप्रसिद्धाभ्यां दृष्टान्तहेतुभ्यां प्रतिज्ञाप्रसङ्गादुदाहरणं कृतं प्राक्। तथा चासिद्ध दृष्टान्तहेतुवादः प्रसज्यत इत्यनेन। अन्यथा यदि साधनमसिद्धं विवक्षित न स्यात् तदा शशशृङ्गादावपि सर्वस्यासिद्धस्य पक्षत्वप्रसङ्गः॥ (१६६)
ननु साध्यं कर्म (1) कर्मणि कृत्यविधानात्। कर्म चेप्सिततमं (1) तच्च क्रियाप्यमानं पयसोदनं भुक्तं इत्यत्र क्रियाप्यत्वेप्यनीप्सिततमत्वात् पयः करणं। ततः साधनीयत्वेपि वादिनोऽनीप्सिततमत्वात् हेतुदृष्टान्तादिकं न प्रतिज्ञा भविष्यति। तथा २ चतुम्विधः सिद्धान्तः । सर्व्वतन्त्रसिद्धान्तः । प्रतितन्त्रसिद्धान्तः। अधिकरणसिद्धान्तः। अभ्युपगमसिद्धान्तश्च। तत्राभ्युपगमसिद्धान्तत्वं' शास्त्रदृष्टस्येति। तदाश्रयेण साध्यस्य निर्देशः प्रतिज्ञा न हेतुदृष्टान्तादेः पक्षत्वप्रसङ्ग इत्याह।
१ यदि साध्य इति सामान्यशब्दः किमिति हेतुदृष्टान्त एव सर्वमसिद्धमस्तीत्याह।
२ द्वितीयः सन्ति प्रमाणानि प्रमेयार्थानि सर्वसंमत्या। ३ यथा स्वं नित्यमनित्यम्वा।
४ यत् प्रसिद्धावन्यसिद्धिः सांख्यस्य वान्तराभवनिषेधे आत्मैव सञ्चरत्यशरीराऽपरीक्षिताभ्युपगमात्।
परीक्षात्मास्तित्ववत् न च तदा हेत्वादयोभ्युपगताः।