________________
नैयायिकपक्षलक्षणे दोषः
४६९
दाहरणं । तथा ह्यवयवानां भेदमिच्छन् प्रत्यक्षतामपीच्छति। अन्यत्वे च निराकृते प्रत्यक्षतायाश्च निरासात्। अवयवानां मिविशेषनिराकरणोदाहरणत्वं व्यक्तं । अभ्युपगम एव चात्र बाधकः । अवयवादर्शने द्रव्यादर्शनस्वीकारात्। गुणव्यतिरिक्तं द्रव्यमस्तीति परेणोक्ते यदोच्यते नास्ति द्रव्यं गुणद्रव्याणां द्रव्याद्रव्यत्वप्रस' ङ्गात्। तद्धर्मिस्वरूपनिराकरणोदाहरणं (1)
२ तथाहि धर्मिण एव द्रव्यस्य स्वरूपमात्रं निराक्रियते (1) गुणद्रव्याणाम-gra न्योन्यं भेदः (स्वीकृतः) गुणोपि द्रव्यं स्यात्। द्रव्यञ्च गुणः। भेदाविशेषादित्यभ्युपायस्य बाधकत्वं।
(३) नैयायिकपक्षलक्षणे दोषः ननु ३ साध्य निर्देशः प्रतिज्ञेति पक्षलक्षणं नै या यि का नां तत्र को दोषः। असिद्धहेतुदृष्टान्तस्यापि पक्षत्वप्रसङ्ग इत्युक्तं। ननु साध्यत इति साध्यं । हेतुदृष्टान्तौ तु साधयिष्यते ततो नानयोः पक्षत्वप्रसङ्ग इत्याह।
त्रिकालविषयत्वात्तु कृत्यानामतथात्मकम् ।
तथा परं प्रति न्यस्तं साध्यं नेष्टं तदापि तत् ॥१६४॥ कृत्यानां प्रत्ययानां कालसामान्यविहितत्वेन त्रिकालविषयत्वात् साध्यशब्देन कृत्यान्तेन न साध्यमात्रस्य ग्रहणं साधयिष्यमाणस्यापि ग्रहणात्। तथा च नित्यः शब्दो मूर्तत्वात् बुद्धिवदित्यादि प्रयोगे तदा वाद काले तद्धेतुदृष्टान्तादिकमतथात्मकं वस्तु तोऽतत्स्वभावात्मकं (1) परं प्रति तथाऽतद्रूपत्वेन न्यस्त
१ द्रव्यं पृथिव्यादि गुणो गुरुत्वादि।
२ सत्तायोगात् क ण भु जो द्रव्यादित्रयं सत्। पदार्थसत्करी सत्तेति वचनात्। अतो गुणानामपि द्रव्यतापत्तिः। दृष्टस्थितसत्वेन सम्बन्धात् यद् द्रव्यसमवायिस्वभावं सत्त्वं तन्न गुण इति एकत्वहानिः सा च नेष्टेति गुणेपि द्रव्यस्थितरूपस्यैव वृत्तिरिति द्रव्यत्वप्रसङ्गः इति दृष्टान्तसूचनं। यत् सत्तावन्न तद् द्रव्यं यथा गुणः। सत्तावच्च द्रव्यमिति विरुद्धव्याप्तेन धर्मिस्वरूपनिकारणात् प्रतिज्ञादोष एवं गुणेपि योज्यं।
। व्याख्येयान्तर्गतत्वेन परमतमाह। ४ सिद्धहेत्वादिनिवृत्त्यर्थः। सिद्धहेत्वादिनिवृत्त्यर्थ । ५ नित्यत्वसाधक। नित्ये साध्येऽनित्यं।