________________
प्र० वा० वृत्तौ ० (४ परिच्छेदः)
ननु गुरुत्वाप्रतीतावपि अंशुः प्रतीयते तद्वदवयव्यादिकमपि प्रत्येष्यत इत्याह । न च गुरुत्वानुपलक्षणेप्यंशुरिव सोऽर्थोऽवयव्यादिरीक्ष्यते । न च तत्कार्यं गौरवावरणादिरीक्ष्यते। तस्मादप्रत्यक्षतैव सर्व्वथा स्यात् ।
किञ्च (1)
४६८
गुरुत्वागतिवत् सर्वतद्गुणानुपलक्षाणात् ॥१६१॥ माषकादेरनाधिक्यम्;
गुरुत्वादिगुणागतवत् सर्व्वेषां रूपादीनामधिकानां तस्य द्रव्यस्य गुणानामनुपलक्षणादवयवेभ्यो माषकादेरवयविनोरनाधिक्यं । यदि ह्यवयवेभ्योधिकं तदा गुरुत्वादिवत् रूपादिवत् अवयवेषु वर्द्धमानेषु वर्द्धमानं दृश्येत । ( १६१ )
ननु तुलानतिविशेषाग्रहणादित्युक्तमा चा र्येण तत्कि रूपादिग्रहणाभाव
उच्यत इत्याह ।
अनतिः सोपलक्षणम् । यथास्वमत्रेणादृष्टे रूपादावधिकाधिके ॥ १६२॥
अनतिराचार्येण या निद्दिष्टा सोपलक्षणमात्रं न तु नियमः । अनतिः क्वोपलक्षणमित्याह। रूपादौ द्रव्याभिवृद्ध्याऽधिकाधिके यथास्वं यस्य यदात्मीयं ग्राहकं तेनाक्षेणेन्द्रियज्ञानेनादृष्टेः १ । यद्रूपादिविषयं यदिन्द्रियप्रत्यक्षं तदेव तस्य धर्मिविशेषस्य पक्षबाधकमित्यर्थः । तस्माद् गुणक्रियावत् दृश्यावयव्यभाव एवेति धर्मविशेषवाग्द्वारेणोदाहरणमुक्तं । ' (१६२)
अभ्युपायस्ववागाद्यबाधायाः संभवेन तु ।
उदाहरणमप्यन्यद्दिशा गम्यं यथोक्तया ॥ १६३॥
अभ्युपायोऽभ्युपगमः स्ववागादि र्यस्य तेनाबाधायाः संभवेन त्वन्यदप्युदाहरणं । धर्मिविशेषनिराकरणेन धर्मिस्वरूपनिराकरणेन यथोक्तयाऽनयोदाहरणदिशा गम्यं ।। ( १६३)
तत्र परेणावयविनः सकाशादवयवानामन्यत्वे प्रतिज्ञाते यदुच्यते (1) नान्येऽवयवा अवयविनः अप्रत्यक्षत्वप्रसङ्गादिति । तद्धर्मिविशेषनिराकरणो
9 अनुपलब्धिसाधनमुक्तं ।
२ आदिना प्रत्यक्षानुमानप्रतीतिसंभवग्रहः । ३ तदाचार्योक्तमाह ।
8 'अवयवा धर्मिणः अन्यत्वं साध्यं परेण तन्मध्ये केषाञ्चित् प्रत्यक्षत्वविशेषोभिमतस्तेन । स चान्यत्वेनुपपन्नं तस्य भेदेनाभासनात् । यद्भेदेन यतो न भाति न स्वप्रत्यक्षो । यथा प्रथमस्यामहतोवयविनोऽवयवाः । न भान्ति चान्यस्याप्यवयविनोऽवयवाभेदेनेति व्यापकाभावः ।