________________
४६७
अवयविनिरासः तस्य क्रमेण संयुक्त पांशुराशौ सकृद् युते ॥१५७॥ भेदः स्याद् गौरवे तस्मात् पृथक् सह च तोलिते ।
सुवर्णमाषकादीनां संख्यासाम्यं न युज्यते ॥१५८॥ तस्यैवंवादिनो मते क्रमेण सूक्ष्मावयवसंयोगाभिवृद्धिपरिपाट्या संयुक्ते स्थूलावयवितां गते पांशुराशाववयवसंयोगाभिवृद्धिक्रममनपेक्ष्य " सकृदेककालं युक्त स्थूलावयवितां गते भेदो गौरवे स्यात्। तथा हि द्वयणुकादिक्रमेण कार्यद्रव्यसंयोगपरंपरया च द्रव्यमुत्पद्यते। तत्रानेकद्रव्यभारसद्भावात् महद्गौरवं भवेत्। यत्र त्वेक एव सकृत् पांशुराशिः संयोगाज्जायते तत्रैकस्य द्रव्यस्याल्पीयो गौरवं भवति न चास्त्येतत् । किञ्च (1) तस्माद् गौरवभेदात् पृथक् प्रत्येकं माषकादौ तोलिते पिण्डा'वस्थयोः सह चापरैर्मास (?ष) कादिभिस्तोलिते सुवर्णमास- 94b कादिभिन्नायाः संख्यायाः साम्यं १ न युज्यते (1) मासकावयविनां विनाशे तत्संख्यानां गौरवाणां च नाशादेकं सुवर्णमित्येव स्यात्। दृश्यते च प्रत्येकं माषकादीनां तुलायां यावती संख्या तावत्येव सहतोलितानामपि ॥(१५७,१५८)
सर्षपादामहाराशेरुत्तरोत्तरवृद्धिमत् ।
गौरवं कार्यमालाया यदि नैवोपलभ्यते ॥१५९॥ अथ रक्तिकायाश्चतुर्थो भागः सर्षपस्तस्मादारभ्य आमहाराशेः स्थूलावयविनं यावत् क्रमवृद्धिमतां कार्याणां मालाया उत्तरोत्तरवृद्धिमद् गौरवं सदपि नोपलभ्यत इति यदुच्यते (११५९) तदा (1)
आसर्षपाद् गौरवन्तु दुर्लक्षतमनल्पकम् ।
तोल्यं तत्कारणं कार्यगौरवानुपलक्षणात् ॥१६०।। आसर्षपात् सर्षपादारभ्य द्वयणुकं यावत् पूर्वं पूर्व गौरवं तत् दुर्लक्षतमनल्पकमिति सुतरामनुपलभ्यं स्यात् । सर्षपादुत्तरन्तु गौरवं स्वयमेव दुर्लक्षमिष्टमिति कार्यद्रव्यगौरवानुपलक्षणात् तस्य कार्यद्रव्यस्य कारणं परमाणवः पारिशेष्यात् तोल्यं स्यात्। न च परमाणूनां गुरुत्वादिगुणोपलम्भोस्ति तदनुपलक्षणेन च नावयविनः परमाणूनाम्वोपलम्भोस्तीति सर्वथार्थानामप्रतिपतिः स्यात् । (१६०)
नन्वदृष्टोंऽशुवत् सोर्थो न च तत्कार्यमीक्ष्यते ।
'रक्तिकशतेऽवयविराशेः कथमेकावयविना साम्यं। एकानेकपलपिण्डवत् ।
मा भूत् संख्यावैषम्यमिति। तदनुपलम्भादेवावयविकल्पनात्।