SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ प्र० वा० वृत्तौ ० (४ परिच्छेदः) यदि पुनरनिन्द्रियग्राह्यत्वं द्रव्यलक्षणेनाविशिष्टन्तदवयवि द्रव्यं साध्यते तदाविशिष्टस्यान्यस्य च साधने बौद्धस्य न काचित् क्षतिरिति सिद्धसाधनं स्यात् । तस्माद् दृश्यो द्रव्यगुणवान् भावोऽवयवीति साध्यं ततश्चास्यावयविनो गुरुत्वं गुणगतिश्च कर्म यदि स्यातां तदा मृदादिखण्डयोः सहतोलितयोर्यावती तुलानतिगौरववशाद् दृष्टा ततोधिका तुलानतिः स्यात् । यदा तयोर्मृदादिखण्डयोः संयोगे सति द्रव्यान्तरमुत्पद्यते तदा तयोः पूर्व्वावस्थितयोः पूर्व्वावस्थितं गौरवं तदोत्पन्नस्य च द्रव्यस्याधिकगौरवविशेषात् तुलानतिविशेषो दृश्येत' । न चैवं तस्मान्न तत्र कार्यद्रव्यसम्भव इत्यवयवी निर्गुणो निष्क्रियश्च स्यात् ( । १५४ ) तन्निर्गुणक्रियस्तस्मात् समवायि न कारणम् । तत एव न दृश्योसावदृष्टेः कार्यरूपयोः ॥ १५५ ॥ ४६६ तस्मान्निर्गुणक्रियत्वात् गुणकर्मणोर्न समवायि कारणमवयवी । तत एव द्रव्यलक्षणयोगान्न तस्यावरणादि कार्यं स्वरूपम्वा किञ्चित् दृश्यते ( 1 ) अदर्श - नाच न दृश्योऽवयवी ( १५५ ) [तबाधान्यविशेषस्य नान्तरीयकभाविनः । तत् तस्मादसाववयविनो बाधाऽन्यस्य २ विशेषस्य गौरवाधोगत्यादेर्ना - न्तरीयकभाविनः साध्यान्यत्वाविनाभाविनः । बाधेति धर्मविशेषनिराकरणे निर्देशो युक्तः । आसूक्ष्माद् द्रव्यमालायास्तोल्यत्वादंशुपातवत् ॥१५६॥ द्रव्यान्तरगुरुत्वस्य गतिर्नेत्यपरोऽब्रवीत् । 5 आसूक्ष्माद् द्व्यणुकादारभ्य द्रव्यमालायाः स्थूलावयविपर्यन्तायास्तोल्यत्वात् तद्दृद्रव्यमालावर्त्तिनः स्थूलस्य द्रव्यान्तरस्य न गतिर्भवति । तुलाया - मंशुपातवत्। कर्पासभारपतितस्यांशोरेकस्य यथा गुरुत्वं सदपि न प्रतीयते ( 1 ) तथा द्रव्यमालावत्तिनः स्थूलद्रव्यस्य इत्यपरोऽब्रवीत् । १ परमाणवोऽदृश्या नोदकाहरणक्षमा अतोवयवी वै शे षि कस्वीकृतः । स धर्मी अन्यत्वं साध्यं तत्र नान्योवयवीत्युक्तं मृत्पिण्डयोस्तोल्ययोस्तृतीयक्षेपे गौरवान्यत्ववत् तृतीयावयविनि नेति । २ कीदृशस्येत्याह । ३ यत्साध्यमन्यत्वन्तदविना । 8 त्र्यणुकादौ महत्वोक्तेः । उद्योतक रादिः ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy