________________
अवयवनिरासः
धर्मिधर्मविशेषाणां स्वरूपस्य च धर्मिणः । बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता ॥ १५१ ॥
धमिधर्मयविशेषाणां व्यक्तिभेदापेक्षया बहुवचनं । धर्मिणः स्वरूपस्य च सर्व्वेषामेषां साध्यं प्रत्यङ्गभूतानां बाधा । अनेनैव धर्मस्वरूपनिराकरणपरेणो- 9. दाहरणेन साध्यते । पक्षलक्षणत्वाद्वाधोपदशिता ( 1 ) (१५१)
(२) अक्यविनिरासः
तत्रोदाहृतिदिङ मात्रमुच्यतेऽर्थस्य दृष्टये । द्रव्यलक्षणयुक्तोन्यः संयोगेथस्ति दृष्टिभाक् ॥१५२॥
४६५
१ तत्राश्रावणः शब्द इत्यादिषूदाहरणदिङमात्रमुच्यते । साध्याभूत सर्व्वस्यैव बाधा भवतीत्यर्थस्य दृष्टये दशनार्थं तत्र परस्यावयवेभ्योऽवयविनो गुरुत्वादिगुणयोगिनोऽन्यत्वेऽभिमते यदोच्यते नान्योऽवयव्यवयवेभ्यस्तुलानतिविशेषाग्रहणादिति (1) एतद्धर्मविशेषनिराकरणेनोदाहरणं बोद्धव्यं । तथाहि नात्रान्यत्वमात्रं निषेद्भुमिष्टं । तथात्वे धर्मस्वरूपनिराकरणोदाहरणमेतत् स्यात् । तस्मादन्यत्वस्य साध्यधर्मस्य नान्तरीयका गौरवादयो विशेषा निराकर्त्तुमिष्टाः । त्था च धर्मविशेषोदाहरणमेव तत् । तथाहि परैरेकस्यावयवस्यान्यान्यावयवसंयोगे सति तदन्योऽर्थोऽवयविसंज्ञितो द्रव्यस्य लक्षणेन क्रियावद् गुणवत्समवायिकारणञ्चे'' त्यनेन युक्तो दृष्टिभाक् दृश्योस्तीतीष्टमेव। (१५२)
अन्यथा (1)
दृश्यस्य विशिष्टस्य प्रतिज्ञा निष्प्रयोजना | इष्टो ह्यवयवी कार्य दृष्ट्वाऽदृश्येष्वसम्भवि ॥१५३॥
अदृश्यस्य संव्यवहाराविषयस्य द्रव्यलक्षणेन विशिष्टसामान्यमात्रस्यास्तित्वप्रतिज्ञा निष्प्रयोजना भवेत् । तथा हि परमाणुष्वदृश्येष्वदर्शनावरणप्रतिघातादिकार्यमसंभवि दृष्ट्वाऽवयवी चेष्टः । तस्मिन् दर्शनादिकार्ययोगात् । (१५३) अविशिष्टस्य चान्यस्य साधने सिद्धसाधनम् । गुरुत्वाधोगती स्यातां यद्यस्य स्यात् तुलानतिः ॥ १५४॥
' यद्येवमिदमेवोदाहरणमस्तु किमर्थं नान्याऽव (य) व्यवयवेभ्य इत्यादिकमा चाणोक्तमित्याह ।
२ नान्तरीयकस्य । ३ वैशेषिकेण ।
५९