________________
प्र० वा. वृत्तौ० (४ परिच्छेदः) प्रसिद्धविशेषणः। यथा विनाशी शब्दः ॥ सां ख्यं ' प्रति तस्य विनाशासिद्धेः । कश्चिदप्रसिद्धोभयः (1) यथा समवायिकारणमात्मा। बौद्धस्योभयासिद्धेरिति । __ नन्वसिद्धोप्यात्मा पक्षी भविष्यति तल्लक्षणयोगात् (1) नह्यसिद्धस्य पक्षता निरस्ता। आश्रयासिद्धत्वाद्धेतोर्न पक्ष इति चेत् । न ।२ । ____साधनदोषोयं न पक्षदोषः। तथा शब्देऽनित्यत्वं विषेशणमसिद्धमिति गुण एवायं न पक्षदोषः। असिद्धस्यैव साध्यत्वात्। अथ विपर्ययसिद्ध्याऽसिद्धमुच्यते। तथापि मूढस्य विपर्ययसिद्धावपि नायं पक्षदोषः। विरोधो नाम हेतुदोष ए-4 वायं। प्रमाणेन च विपर्ययसिद्धौ प्रमाणबाधितत्वमेव पक्षदोषोस्तु । अलमप्रसिद्धविशेषणत्वाभिधानेन। अप्रसिद्धोभयस्य तूभयदोषाच्च सर्वेऽमी हेतुदोषा एवेति किं पक्षदोषा वक्तव्याः। अथ (1)
सर्वसाधनदोषेण पक्ष एवोपरुध्यते ।
तथापि पक्षदोषत्वं प्रतिज्ञामात्रभाविनः ॥१४९।। । सर्वेण साधनस्य दोषेणासिद्धत्वादिना पक्ष एवोपरुध्यते तेन पक्षदोषा असिद्धविशेष्यादयोऽभिधीयन्ते । यद्यपि पक्षोपरोधफलाः सर्वे दोषास्तथापि प्रतिज्ञामात्रेण ३ भवनशीलस्य दोषस्य पक्षदोषत्वमुक्तमिष्टं। (१४९) यस्मात् साक्षात् (।)
उत्तरावयवापेक्षो यो दोषः सोनुबध्यते ।
तेनेत्युक्तमतोऽपक्षदोषोऽसिद्धाश्रयादिकः ॥१५०॥ उत्तरोऽवयवो हेतुदृष्टान्तादिस्तदपेक्षो यो दोषः स तेन हेत्वादिनानुबध्यते। आत्मनि सम्बध्यते इत्युक्तं प्राक्। उत्तरावयवापेक्षो न दोषः पक्ष इष्यत इत्यादिना। अतोऽसिद्धाश्रयादिक आश्रयासिद्धत्वादिरुत्तरावयवापेक्षो न पक्षवोषो मतः ॥ (१५०) __ नन्वश्रावणः शब्दो | नित्यो घटः। नानुमानं प्रमाणं ' (1) अचन्द्रः शशीत्युदाहरणैरेभिर्द्धर्मस्वरूप निराकरणेन बाधा दर्शिता यथा प्रतिज्ञातधर्ममात्रस्य विपरीतधर्मोपस्थापनेन निराकरणात्। धर्मिविशेषस्य धर्मविशेषस्य धर्मिस्वरूपस्य च बाधनेन पक्षबाधास्ति । सा कथमवगन्तव्येत्याह ।
१ बौद्धस्य। २ अत्राह सिद्धान्ती। नोत्तरत्वेत्याविदोषेण । ४ नित्यो घट इति प्रतिज्ञायां नित्यत्वस्य बाधितत्वात्।। ५ अव्याख्याता समुच्च ये।