________________
४६३
हेतुनिरपेक्षः पक्षदोषः क्रमक्रियाऽनित्यतयोरविरोधाद् विपक्षतः ।
व्यावृत्तः संशयान्नायं शेषवद् भेद इष्यते ॥१४॥ क्रमक्रिया हेतुः। या च साध्याऽनित्यता तयोरविरोधात्। अवस्तुभूत (धर्म) सुखादिधर्मानित्यत्वे विपरीते साध्ये वस्तुभूतसुखादिधर्मानित्यत्वं विपक्षस्ततो हेतोः क्रमकरणव्यावृत्तेः संशयान्नायं विरुद्धो १ हेतुः। शेषवद् भेदोऽनकान्तिकविशेषस्त्विष्यते। सति च विरुद्धत्वे धर्मिबाधाद्वारेण धर्मबाधा स्यात्। (१४६)
(३) धर्मिस्वरूपनिरासः स्वयमिष्टो यतो धर्मः साध्यस्तस्मात् तदाश्रयः ।
बाध्यो न केवलो नान्यसंश्रयो वेति सूचितम् ॥१४७॥ यतः कारणात् स्वयम्वादिनेष्टो' धर्मः साध्यस्तस्मात् साध्यधर्मस्याश्रयः यः स एव बाध्यः केवलो न बाध्यः। यथा वस्तुभूताकाशबाधायामपि नित्यैकरूपत्वाभावस्य साध्यधर्मस्य न क्षतिः। साध्यधर्मादन्यस्य च धर्मस्याश्रयो न बाध्य इति स्वयंशब्देन सूचितं। यथाऽनित्यत्वे साध्ये शब्दे आकाशगुणत्वाश्रयत्वेन बाधायामपि न दोषः। (१४७) तस्मात् (1)
स्वयंश्रुत्यान्यधर्माणां बाधाऽबाधेति कथ्यते ।
तथा स्वधर्मिणान्यस्य धर्मिणोपीति कथ्यते ॥१४८॥ स्वयंश्रुत्या साध्याद् धर्मादन्येषां धर्माणां यथा बाधा या सा बार्धति कथ्यते। तथा स्वर्मिणा स्वर्मिवचनेन साध्यादन्यस्य धर्मस्य धर्मिणो बाधाऽबाधेति कथ्यते ॥ (१४८)
५-पतदोषाः
(१) हेतुनिरपेक्षः पक्षदोषः तथाऽपरेपि पक्षाभासाः सन्ति ते कस्मान्नोच्यन्ते। तथा ह्यप्रसिद्धविशेष्यः कश्चित् पक्षो यथा २ विभुरात्मा। आत्मन एव बौद्ध स्यासिद्धत्वात्। कश्चिद्
१ धर्मोपरोधाद् विरुद्धः सांस्यस्याचार्यविरुद्धत्वं नेह । २ वैशेषिकस्य। ३ सिद्धान्ती सति मिणि धर्माश्चिन्त्यन्ते ।