SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४६२ प्र० वा. वृत्तौ० (४ परिच्छेदः) यस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत । बाधनं धर्मिणस्तत्र बाधेत्येतेन वणितम् ॥१४३॥ द्वयस्य धर्मिधर्मसमुदायस्यापि हि साध्यत्वे सति यत्र धर्मिणो बाधनं साध्यधर्मोपरोधि तत्र पक्षबाधा युक्तेत्येतेन स्वधमिग्रहणेन वणितं। न हि साध्यधर्ममात्रसाधनार्थं कश्चित् साधनमन्वेषते। तस्य जगति क्वचित् सत्तायां विवादाभावात्। तथा निश्चये प्रवृत्त्ययोगाच्च । किन्तु धर्मिविशेषनिष्ठं साध्यमिष्टं ॥ (१४३) तथैव धर्मिणोप्यत्र साध्यत्वात् केवलस्य न । यद्येवमत्र बाधा स्यात्; तत्र यथा धर्मिविशिष्टस्य साध्यत्वं धर्मस्य तथैव साध्यत्वविशिष्टत्वेन धर्मिगोपि साध्यत्वात् केवलस्य धर्मस्य न क्वचित् साध्यता। ततो न केवलस्य धर्मिणो बाधने पक्षबाधा। यदि साध्य धर्मोपरोधिनि धर्मिणि बाधिते पक्षबाधेष्यते (1) एवं सत्यत्र हेतौ सां ख्यं प्रति बौद्धेनोक्ते धर्मिबाधाद्वारेण धर्मबाधा स्यात् । नान्यानुत्पाद्यशक्तिकः ॥१४४॥ :: सकृच्छब्दाद्यहेतुत्वात् सुखादिरिति पूर्ववत् । विरोधिता भवेदन हेतुरैकान्तिको यदि ॥१४५।। तद्यथा सुखादिः सुखदुःखमोहात्मकं प्रधानं नान्येन सहकारिणाऽनुत्पाद्यशक्तिकोऽनाधेयसामर्थ्यः सकृच्छब्दादीनां कार्याणामहेतुत्वादिति। अत्र पूर्ववत् परैरनुत्पाद्येत्यादिप्रयोगत्वाच्च। सुखाद्यात्मकस्य नित्यत्वस्य बाधनात् सुखादौ धम्मिणि बाधिते तद्धर्मस्य नित्यत्वस्य विरोधने विपर्ययसाधने बाधा स्यात् ।' अनित्यस्वभावो हि सुखादिः साधयितुमिष्ट: । सुखादिस्वभावभूतनित्यत्वबाधने च सुखादिरेव बाधित इति धर्मोपरोधिनि धर्मिणि बाधिते पक्षबाधा स्यात्। अत्राह। भवेदत्र हेतौ पक्षबाधा। यदि न सकृच्छब्दाद्य 'नुत्पादादिति 93b हेतुः साध्यस्य। वस्तुभूतसुखाद्यनित्यत्वस्य। विपर्यये सुखादिधर्म्यभावादनित्यत्वाभावेनैकान्तिकोऽव्यभिचारी भवेत्। (१४४,१४५) यावता या च (1) १ सामर्थ्यादन्याभावात् । २ आदिना स्पर्शरूपरसगन्धप्रहः ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy