________________
स्वमिग्रहणप्रयोजनम् नन्वेतदुभयसंग्रहणमप्यर्थतः । सामर्थ्यतः सिद्धं । न हि केवलो धर्मोस्ति क्वचित् तद्वाधने तद्विशिष्टस्य धर्मिणोपि बाधनात् समुदायबाधैवैषितव्या। सा च धर्मिद्वारेण वा भवतु धर्मद्वारेण वा न कश्चिद् विशेष इत्यर्थः ।
अत्राह सत्यमेतत् केचित्तु वादिनो २ धर्मिणः केवलस्योपरोधे साध्य-' धर्मस्याबाधायामपि पक्षस्य दोषवत्तामुपागताः प्रतिपन्नाः। (१४०)
यथा परैरनुत्पाद्यापूर्वरूपन्न खादिकम् ।
सकृच्छब्दाद्यहेतुत्वादित्युक्त प्राह दूषकः ॥१४१॥ यथा परैः सहकारि भिरनुत्पाद्यापूर्वरूपं न खादिकमाकाशदिक्कालादि न भवति। अपि तूत्पाद्यापूर्वरूपमेव भवति। सकृदेककालन्तदुत्पाद्यस्य । कार्यकलापस्य शब्दादेरहेतुत्वादविशिष्टकरूपात् कारणात् सकृत् सर्वकार्योत्पत्तिप्रसङ्गादिति वादिनोक्ते दूषकः प्रतिवाद्याह । (१४१) ___ तद्वद् वस्तुस्वभावोऽसन् धर्मी व्योमादिरित्यपि ।
नैवमिष्टस्य साध्यस्य बाधा काचन विद्यते ॥१४२॥ - तद्वद्यथानुत्पाद्यापूर्वरूप आकाशादिर्न' भवति । ° तथा वस्तुस्वभावो धर्मी व्योमादिरसन्नित्यपि स्यात्। अर्थक्रियाऽसमर्थस्य वस्तुत्वाभावादिति धर्मिणः केवलस्य बाधनं न धर्मस्य। एवं धर्मिबाधनपीष्टस्य साध्यस्य काचन बाधा न विद्यते। हेतोवा॑ऽसिद्धिः । असत्यपि कार्यानुत्पादस्य व्यवच्छेदस्य सिद्धेः। (१४२)
ततः (1)
,' साक्षाद् धर्मिद्वारेण चेत्यविशेषात् ।
२ यत्र धर्मिबाधेपि साध्यस्य न क्षतिः तत्रापि दोषः। .३ वैशेषि (क) प्रति सौ त्रान्ति केन। ४ न क्षतस्वभावमिति साध्यं धर्मी। ५ शब्दहेतुराकाशं तद् यदि नित्यं एकदोत्पत्तिप्रसङ्गः सदा सन्निधानात् हेतोः।
विरुद्धतां। । ७ वस्तुस्वभाव आकाशादिर्द्धर्मो न वेति विवक्षामनङ्गीकृत्याकाशसत्त्ववादिना सौत्रान्ति के न सामान्येन प्रकृते आकाशादौ स्थिररूपत्वधर्मव्यवच्छेदमात्रे साध्ये युगपद्धेतुत्वव्यवच्छेदरूपे हेतौ यद्याह परः वस्तुभूताकाशाभावं। तादृशे निराकृतेपि नैवेष्टस्य व्यवच्छेदमात्रस्य बाधा प्रज्ञप्तिमति धर्मिणि व्यवच्छेदमात्रस्याव्याघातात्।