________________
४६०
प्र० वा. वृत्तौ० (४ परिच्छेदः) सर्वत्र वादकाले साध्यकाले वा वादिनः स्वसाध्यतया यो धर्म ईप्सितः तधर्मवति धर्मिणि बाधा स्यात्। यथा श्रावणत्ववति शब्दे बाधिते बाधा पक्षस्य। न तु वादीष्टाद् धर्मादन्येन धर्मेण धर्मवति मिणि बाधिते बाधा पक्षस्य स्यादिति धमिग्रहप्रयोजनं यथाकाशगुणत्ववति · शब्दे बाधितेन पक्षबाधा। (१३६)
अन्यथास्योपरोधः को बाधितेन्यत्र धर्मिणि ।
गतार्थे लक्षणेनास्मिन् स्वधर्मिवचनं पुनः ॥१३७॥ अन्यथा यद्येवं नेष्यते तदान्यत्र धर्मे धमिणि बाधितेऽस्य प्रकृतधर्मविशिष्टस्य धर्मिणः क उपरोधो बाधा' ॥ ननु स्वरूपेणैव निर्देश्यः स्वयमिष्टोऽनिराकृतः
पक्ष इति पक्षलक्षणेनैवानिष्टधर्मवतो धर्मिणो बाधा न पक्षबाधेति लभ्यत a93 एवेत्याह। पक्षस्य लक्षणेनास्मिन् वादीष्टधर्मवति धर्मिणि बाध्य त्वेन गतार्थे पुनः स्वमिवचनं यत्कृ
बाधायां धर्मिणोपि स्यात् बाधेत्यस्य प्रसिद्धये।
आश्रयस्य विरोधेन तदाश्रितविरोधनात् ॥१३८॥ धर्मिणोपि २ बाधायां धर्मस्य बाधने पक्षबाधा यथा स्यादित्यस्यार्थस्य प्रसिद्धये क्वचिदाश्रयस्य धर्मिणो विरोधेन प्रतिक्षेपेण तदाश्रितस्य धर्मस्य विरोधनात् धर्मद्वारेण धर्मिद्वारेण वा समुदायबाधायां पक्षबाधेत्यर्थः। (१३८)
अन्यथैवंविधो धर्मः साध्य इत्यभिधानतः ।
तद्बाधामेव मन्येत स्वधर्मिग्रहणन्ततः ॥१३९॥ अन्यथा धमिद्वारेण समुदायबाधायाः संग्रहार्थं स्वधर्मिग्रहणं यदि न क्रियते तदैवम्विधः साध्यत्वेनैवेष्टो धर्मः साध्य इत्यभिधानतः। तस्य धर्ममात्रस्यैव बाधां मन्येत प्रतिपत्ता न तु धर्मिबाधामपि। ततः (1) उभयसंग्रहार्थं स्वमिग्रहणमा चा र्य स्य ॥ (१३९)
नन्वेतदप्यर्थसिद्धं सत्यं केचित्तु धर्मिणः। केवलस्योपरोधेपि दोषवत्तामुपागताः ॥१४०॥
'येन तदाशङ्कानिवृत्त्यर्थः स्यात्। २ तन्न साध्यस्यैव बाधायां बाधा किन्तु धर्मिणोपि ।