________________
स्वमिग्रहणप्रयोजनम्
४५९ तेन समान्यधर्माणामप्रत्यक्षत्वसिद्धितः ।
प्रतिक्षेपेप्यबाधेति श्रावणोक्त्या प्रकाशितम् ॥१३४॥ तेनावस्तुत्वेन कारणेन सामान्यधर्माणां प्रमेयत्वादीनामप्रत्यक्षत्वस्य सिद्धितः। केनचिद्वादिना प्रत्यक्षसिद्धितः प्रतिक्षेपेपि क्रियमाणे न बाध्यबाधकभाव इत्यश्रावण इत्यत्र श्रावणोक्त्या निषेध्यदर्शिकया प्रकाशितं । स्वलक्षणबाधने प्रत्यक्षबाधेत्यर्थः॥ (१३४)
एवं तर्हि शब्दस्व लक्षणं नास्तीत्येव कस्मान्नोच्यते किं श्रावणत्व मुख्यं निषेध्य युक्तिरित्याह ।
सर्वथाऽवाच्यरूपत्वात् सिद्ध्या तस्य समाश्रयात् ।
बाधनात् तबलेनोक्तः श्रावणेनाक्षगोचरः ॥१३५॥ स्वलक्षणस्य सर्वथा केनचिच्छब्देनावाच्यत्वात् । मुख्यमभिधानं नास्त्येव । अथ सामान्यवृत्तिरपि स्वलक्षणशब्दोऽध्यवसायानुरोधात् स्वलक्षणमुपलक्षयति । एवं . श्रावणशब्दोपीन्द्रियग्राह्यतोपलक्षणं शब्दस्वलक्षणमुपलक्षयिष्यतीति न कश्चिद्विशेषः। अथवास्त्येव श्रावणशब्देना भिधाने प्रयोजनमित्याह। श्रोत्रेन्द्रियविषयस्य या सिद्धिस्तथा भावः । तया सिद्ध्या तस्येन्द्रियज्ञानस्य समाश्रयाच्छब्दस्य स्वरूपव्यवस्थित्या हेतुना तेन व्यपदेश इन्द्रियज्ञानबलेन शब्दस्वरूपावस्थितः (1) तथाभिधानमित्यर्थः। किञ्च तस्येन्द्रियज्ञानस्य बलेन शब्दस्वलक्षणविपर्ययभावस्य बाधनात् कारणात् श्रावणेनाक्षगोचरः स्वलक्षणमुक्तः। नित्यो घट इत्यनुमाने नित्यत्वविषयेण कृतकत्वलिङ्गभुवा बाधितः पक्षः। स चासकृद्दर्शित एवेति नेह विपञ्चितः ॥ (१३५)
- (२) स्वधर्मिग्रहणप्रयोजनम् - इदानीं प्रत्यक्षानुमानाप्तप्रसिद्धेन स्व धर्मिणीति स्वमिग्रहणस्य साफल्यमाख्यातुमाह।
सर्वत्र वादिनो धर्मो यः स्वसाध्यतयेप्सितः। तद्धर्मवति बाधा स्यान्नान्यधर्मेण धर्मिणि ॥१३६॥
' इन्द्रियविषयस्वभावः स्वलक्षणं स यदि श्रावणशब्देनाभिमतः।
२ किं क्रियानिमित्तेनोच्यते। स्वलक्षणस्य । ४ तथाभूतार्थप्रतिषेधकस्य पुरुषस्य । वादिनेष्टस्य स्वस्य धर्मी स्वधर्मी तत्र।