________________
प्र० वा. वृत्तौ० (४ परिच्छदः)
उक्ता प्रतीतिबाधा ॥
(७) प्रत्यक्षबाधा प्रत्यक्षबाधा वक्तव्या। न केवलं शाब्दप्रसिद्ध व्यवहारधर्मप्रसिद्धौ तत्प्रतिरोद्धा बाध्यते। किन्तु (1)
अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ ।
प्रसिद्धस्य श्रुतौ; अत्राप्यध्यक्षबाधायां व्यावहारिककल्पनावशात् नानारूपतया लोके प्रसिद्धस्य ख्यातस्य ध्वनौ श्रुतौ श्रवणज्ञाने॥
रूपं यदेव प्रतिभासते ॥१३१॥ अद्वयं शबलाभासस्यादृष्टेबुद्धिजन्मनः।
तदर्थार्थोक्तिरस्यैव क्षेपेऽध्यक्षेण बाधनम् ॥१३२॥ यदेव रूपमद्वयं धर्मादिद्वयशून्यं प्रतिभासते शबलाभासस्य नाना कारस्य बुद्धिजन्मनोऽवृष्टः। यदि नानाकारता शब्दस्य वास्तवी स्यात् (1) तथैव श्रुतिज्ञाने प्रतिभासेत। तदर्था तत्प्रतिपादनफलाऽचार्यस्य प्रत्यक्षानुमानार्थप्रसिद्धेन निराकृतइत्यत्रार्थोक्तिरर्थ ग्रहणमस्याध्यक्ष सिद्धस्यैव रूपस्य क्षेपेऽध्यक्षेण बाधनमिष्टं । (१३१,१३२)
४. सामान्यचिन्ता
(१) सामान्यं व्यावृत्तिलक्षणम् तदेव रूपं तत्रार्थः शेषं व्यावृत्तिलक्षणम् ।
अवस्तुभूतं सामान्यमतस्तन्नाक्षगोचरः॥१३३॥ तत्र श्रुतिज्ञाने भासमानं तद्रूपमर्थः स्वलक्षणं । तदतिरिक्तं शेषं । धमिधर्मादि: व्यावृत्तिलक्षणमन्यव्यवच्छेदस्वभावम वस्तुभूतं सर्वत्र सम्भवात् सामान्यञ्च। अतोऽवस्तुत्वादेस्तद्गुणजात्यादि नाक्षगोचरः। (१३३)
१ श्रोत्रशब्दयोर्यः सम्बन्धो ग्राह्यग्राहकलक्षणस्तद्धितवाच्यः स श्रावणशब्दस्यार्थः। स्वलक्षणस्यैव । न ग्राह्यग्राहकत्वप्रतिषेधे सामान्यस्य वा।
४ जात्यादि।