________________
प्र० वा० वृत्तौ० (४ परिच्छेदः)
एवन्तर्हि नित्यः शब्दोऽसर्व्वत्वादिति । अत्रापि व्यावृत्तिभेदादेव साध्यसाधनभावो भविष्यतीत्याह ।
४८०
व्यवहारोपनीतोत्र स एवाभेिदधीः ।
साध्यः साधनतां नीतस्तेनासिद्धः प्रकाशितः ॥ १८५ ॥
अत्र प्रयोगे स शब्द एव साध्योऽश्लिष्टभेदधीरसंस्पृष्टान्यादृशबुद्धिः । द्वाभ्यामपि शब्दाभ्यामेकस्या व्यावृत्तेः प्रतिपादनात् व्यवहारेण व्यावृत्तिसमाश्रयेणोपनीतः प्रत्युपस्थापितः येन कारणेन साधनतां नीतः तेनासिद्धः प्रकाशितः । ननु संस्कृतशब्दोऽनित्यः संस्कृतत्वादिति प्रतिज्ञार्थैकदेशस्य यथा' हेतुत्वं तथा नित्यः शब्दः शब्दत्वादित्यस्यापि स्यादित्याह ।
भेदसामान्ययोर्द्धर्मभेदादंगांगिता ततः ।
यथाऽनित्यः प्रयत्नोत्थः प्रयत्नोत्थतया ध्वनिः ॥ १८६॥ साध्यधर्मिमात्रनिष्ठत्वात् सर्व्वधर्मगोचरत्वाच्च भेदसामान्ययोर्द्धर्मभेदाद् व्यावृत्तिभेदात् । साध्य 'धर्मो हि साध्यधर्मिनिष्ठत्वेन सजातीयाद् विजातीयाच्च व्यावृत्तत्वाद् विशेषः । साधनधर्मस्तु विजातीयमात्रव्यावृत्तत्वेन सामान्यं । ततो भेदसामान्यभावेन भेदादङ्गाङ्गिता हेतुसाध्यता युक्ता । विशेषः साध्यः सामान्यं हेतुरिति कुतः प्रतिज्ञार्थैकदेशता । यथाऽनित्यः प्रयत्नोत्थो ध्वनिरिति प्रतिज्ञा प्रयत्नोत्थतयेति हेतुः । शब्दः पुनरभिन्न विषयो हेतुः साध्यश्चेति प्रतिज्ञार्थैकदेशत्वं ॥
प्रयत्नानन्तरीयकत्वस्य धर्मिविशेषणत्वात् प्रतिज्ञार्थैकदेशत्वमस्त्येवेत्याह । पक्षाङ्गत्वेप्यबाधत्वान्नासिद्धिर्भिन्नधर्मिणि ।
यथाश्वो न विषाणित्वादेष पिंडो विषाणवान् ॥ १८७॥
97a
पक्षाङ्गत्वे विशेषणत्वेपि नास्त्येव तावत् साधनस्य पक्षाङ्गत्वं विशेषसाध्यत्वात् । भवतु वा तथापि नासिद्धस्य । तेन विशेषणेन भिन्ने विशेषिते धर्मिणि धर्म्यन्तरव्यावृत्ते प्रयत्नानन्तरीयकत्वस्याविरोधादबाधत्वात् धर्मिणं विशेषयदपि
१ अनित्यं शब्दे । २ नित्यः शब्दः शब्दत्त्वादित्यत्र ।
साध्यस्य धर्मिणो धर्मस्य वा साधनतया विरोध एकस्य ज्ञाप्यज्ञापकत्व - विरोधात् (1) अत्र तु विशेषः साध्यः सामान्यं साधनं तत्त्वे प्रतिज्ञया सिद्धिप्रसक्तेः ।