________________
___ प्र० वा. वृत्तौ (१ परिच्छेदः) इन्द्रियाणां प्रत्येकं यथास्वं प्रत्ययैरु पघातेपि सति मनोमतेर्विकल्पबुद्धरुपघात (1) पटुमन्दतादिलक्षणो नास्ति (1) यद्धि यदाश्रितं तत्तद्विकारे विक्रियते यथा घटस्य दाहादौ तच्छुक्लत्वादि(1) तस्मान्न तदाश्रिता बुद्धिः । विपर्ययमेवाख्यातुमाह।
भङ्गेऽस्यास्तेषां भङ्गश्च दृश्यते ॥४॥ भयशोकादिभिरस्या मनोबुद्धर्भङ्गे (नाशे) विकारे सति तेषामिन्द्रियाणां भङ्गो विकारश्च दृश्यते। (४१) ।
तस्मात् स्थित्याश्रयो बुद्धेबुद्धिमेव समाश्रितः। कश्चिन्निमित्तमक्षाणां तस्मादक्षाणि बुद्धितः ॥४२ हर्षादिना च परिपुष्टिरिति विकल्पबुद्धिविकारविकारित्वादिन्द्रियाण्येव तदाश्रितानि (1) तस्माद् बुद्धः स्थितेराश्रयः समानजातीयः कश्चिन्न सेन्द्रियः। कायः। स तर्हि तदाश्रितो भविष्यति न स च बुद्धिमेव समाश्रितः। निमित्तञ्चाभाणां तस्मावक्षाणि बुद्धितो न बुद्धिस्तेभ्यः । (४२)
---(ख) विज्ञानसिद्धिः
___I. अन्वयतः A. प्रतिसन्धिः a. कायाश्रयो बुद्धिः b. प्रतिसन्ध्यापिका बुद्धिः यादृश्याक्षेपिका साऽसीत् पश्चादप्यस्तु तादृशी। .
ततो जन्मादौ यादृशी दृष्टाऽत्मग्रहयोगिनी बुद्धिराक्षेपिका बुद्धीन्द्रियादीनामासीत् पश्चादपि मरणावस्थायामपि तादृश्याक्षेपिका भवतु। जन्मान्तरस्य
'प्रसुप्ति म व्याधिनाऽन्तबहिः कायेन्द्रियेपि नाशिते बुद्धर्भावात् ? २ नानिन्द्रियो भूतदेहे केशनलापादौ चैतन्यप्रसङ्गात्।
यस्मिस्थिते यन्निवर्तते तत्ततो भिन्नं यथोदकेऽग्निः (१) स्थिते मृतशरीरे निवर्त(? त्य)ते प्राणादिभिरिति स्वभावहेतुः। यत्र पूर्वस्थिते प्रागविद्यमानं तत्र पश्चात् भवति तत्ततो भिन्नं तद्यथा पूर्वस्थिते घटे प्रागसन् पश्चात्क्रियमाणो बीपः (१) पूर्वस्थितेषु भूतेषु च तत्राविद्यमानाः स्युः प्राणादय इति स्वभावः पूपिरजन्मसाधनद्वयं। पूर्वक्षणो बुद्धः।
जनकश्च। 'अविकलकारणत्वात्।