________________
भूतचैतन्यमतनिरासः न स कश्चित् पृथिव्यादेरंशो यत्र न जन्तवः।
संस्वेदजाया जायन्ते सर्व बीजात्मकं ततः ॥३९॥ - न स कश्चित्पृथिव्यादेरंशः प्रदेशो यत्र अन्तकः संस्वेदजाचा आद्यशब्दाजरायुजाण्डजप्रभृतयो न जायन्ते (1) ततः सर्वभूतपरिणतिजातं प्राणादिजनने बीजात्मकमिति नास्ति बीजविरुद्धस्वभावता कस्यचित् । सुवर्णासुवर्णबीजत्वन्तु पाषाणादीनां सुवर्णपरमाणूनामेव सदसत्त्वाभ्यामिति विषमो दृष्टान्तः। (३९)
ननु भूतमात्रहेतुकत्वाविशेषेपि परिणामस्य यथा विशेषः सुवर्णपरमाणुमयत्वेतराभ्यान्त था प्राणादिहेतुत्वाहेतुत्वाभ्यामपि स्यात् ।
उक्तमेवात्र सर्वत्र प्राणिनां दृष्टः। सव्वं तद्बीजात्मकमिति नास्त्येवाबीजात्मकता कस्यचित्परिणामस्य । अत्रापि वा तुल्यः प्रसङ्गः। यदि भूतमात्रहेतुकोऽयं बीजपरिणामः सर्वस्तथा स्यात् हेत्वविशेषे कार्यविशेषायोगात्।।
ii. शक्तिमत्त्वनिरासः
a.ननु भूतान्यप्यवान्तरानेकविविधविशेषभाजि विचित्राःपरिणतीर्जनयन्तीति न समानताप्रसङ्गः । न तावत्सविशेषो भूतमात्रात् सर्वत्र प्रसङ्गात्। न चान्यतोऽन्यस्याभावात्। अस्माकन्तु कर्मापि सहकारि सम्मतं तद्वैचित्र्यात् विचित्रं कार्यजातमुचितं । शक्तिपक्षं निषेद्धमाह। -
तत् स्वजात्यनपेक्षाणामक्षादीनां समुद्भवे । परिणामो यथैकस्य स्यात् सर्वस्याविशेषतः॥४०॥
तत्तस्माद् भूतमात्रहेतुत्वात् स्वजात्यनपेक्षाणामक्षादीनां समुद्भवे स्वीक्रियमाणे परिणामो यर्यकस्य देहस्यातद्भूतप्राणापानेन्द्रियचैतन्यशक्तितया तथा सर्वस्य लोष्टादेरपि स्यावेतोरविशेषतः। अत एव हि प्रसङ्गाद् गुणपक्षोपि प्रतिक्षिप्तो बोद्धव्यः। तस्मादाश्रयत्वमपि नास्त्यनिन्द्रियस्य कायस्य कारणत्वशक्तिमत्वे गुण' त्वानामयोगतः । (४०)
b. सेन्द्रियोपि कायो बुद्धराश्रयो न युक्त इति वक्तुमाह। प्रत्येकमुपघातेऽपि नेन्द्रियाणां मनोमतेः । उपघातोस्ति;
१ चार्वाको नित्यानि भूतान्येव परिणत्याभुतचतन्यानि सत्वम्पपवेशभाञ्जि। तान्येव विरोधिप्रत्ययादनभिव्यक्तचैतन्यानीत्युक्तेः।