________________
प्र० वा. वृत्तौ (१ परिच्छेदः) तदेता युक्तमाश्रयप्रतिषेषतो बुद्धः। बुद्धिरहितः कायो ना'श्रयः कारणत्वात् गुणित्वात् शक्तिमत्त्वाद्वा । (३६)
. (क) भूतपैतन्यमनिरास:* i. बीजपक्षनिरासः ३. तत्र कारणत्वं प्रतिषेद्धमाह। प्राणापानेन्द्रियधियां देहादेव न केवलात् । सजातिनिरपेक्षाणां जन्म जन्मपरिग्रहे ॥३७॥ अतिप्रसङ्गात्;
प्राणो वायुरूर्ध्वगः तद्विपरीतोऽपानः। इन्द्रियाणि चक्षुरादीनि। धीर्बुद्धिः' तासां सजातिनिरपेक्षाणां कारणभूतपूर्वसजातिप्राणादिपुजनिरपेक्षाणां देहादेव Ga केवलान्न जन्म भवति (1) कुत इत्याह (1) जन्मपरिग्रहेति (प्र)सङ्गात् (1)
यदि महाभूतेभ्य एव केवलेभ्यः प्राणादीनां जन्मग्रहस्तदा सर्वस्माद् भवेयुरिति सर्व प्राणिमयं जगत् स्यात् (1) न चास्त्येतत्तस्मात्पूर्वसजातिसापेक्षाणामेवाक्षादीनां देहाज्जन्मेति पूर्वजन्मप्रतिबन्धसिद्धिः । (३७) भाविजन्मपरम्परासिद्धयर्थमप्याह (1)
यद् दृष्ट प्रतिसन्धानशक्तिमत् । किमासीत् तस्य यन्नास्ति पश्चाद् येन न सन्धिमत् ॥३८॥
यत्प्राणापानादिमध्याव स्थायां प्राणादीनामुत्पादनशक्तियुक्तं दृष्टं तस्य किमासीत् प्रतिसन्धानकालेऽधिकं यत् पश्चान्मरणका ले नास्ति येन तद्वैकल्यात्तदा न सन्धिमत्समनाप्रतिबद्धकारणत्वात् प्रतिसन्धानं प्राप्तमित्यर्थः। (३८)
b. स्यादेतत् (1) पूर्वसजातिहेतुकमिन्द्रियादि न भवति किन्तु देहहेतुकमेवेदं न चातिप्रसङ्गः केषाञ्चिदेव भूतपरिणामानां देहात्मकानां तद्धेतुत्वात्। अन्येषाञ्च तद्विरुद्धस्वभावानामहेतुत्वात् सुवर्णबीजाबीजपाषाणवत्' (1) अत्राह ।
कारणत्वेनाश्रयो न। * द्रष्टव्यं परिशिष्टं ११९,३७ - वर्तमानायां। तदपि प्राणादीनां सत्त्वात् पूर्वावस्थावत् नाविकलकारणो नसल्यते। प्राणापानेन्द्रियषियां। - कुतस्तदेहनाशे बुद्धरभावः।
सदापि प्राणादीनां सस्वात् पूर्वावस्थावत् नाविकलकारणो न संपत्ते।