SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ भगवान् प्रमाणम् १ दूरं पश्यतु वा मो वा तत्त्वमिष्टन्तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे ॥३५॥ दूरं पश्यतु वा मा वा द्राक्षीत्तत्वमिष्टन्त्वार्यसत्यचतुष्टयं पश्यति तावतैव भगवान् प्रमाणमन्यथाऽतत्त्वदर्श्यपि प्रमाणं दूरदर्शी चेदिष्यते । एतागच्छत मुमुक्षवो गृध्रानुपास्महे दूरदर्शिनो दीर्घश्रुती श्च (? न् च ) वराहानित्युपहसति । उक्तमभिमतं प्रामा*ण्यं (३५) ॥ (३) कारुणिकत्वात् प्रमाणम् क. जन्मान्तरसिद्धि: ( करुणा जन्मान्तराभ्यासात्) नन्वीदृशस्य प्रमाणस्य किं साधनमित्याह (1) साधनं करुणाभ्यासात् सा बुद्धेर्देहसंश्रयात् । असिद्धाऽभ्यास इति चेन्नाश्रयप्रतिषेधतः ॥ ३६॥ साधनं करुणा दुःखादुःखहेतोश्च समुद्धरणकामता करुणा सा भगवतः प्रामाव्यस्य साधनं । सैव करुणा इत्यत आह । अभ्यासात्सा गोत्रविशेषात्कल्याणमित्रसंसर्गादनुशंयदर्शनाच्च कश्चिन्महासत्त्वः कृ पायामुपजातस्पृहः सादरनिरन्तरानेकजन्मपरम्पराप्रभवाभ्यासेन सात्मीभूतकृपया प्रेर्यमाणः सर्व्वसत्त्वानां समुदयहान्या दुःखहानाय मार्गभावनया निरोधप्रापणाय च देशनां कर्तुकामः स्वयमसाक्षात्कृतस्य देशनायां विप्रलम्भसम्भावनाच्चतुरार्यसत्यानि साक्षात् करोतीति भगव साधनं कृपा प्रामाण्यस्य । बुद्धेर्देहसंश्रयादसिद्धोऽभ्यास इति चेत् बुद्धिर्देहमाश्रिता कार्य ̊त्वात् प्रदीपमिव प्रभा । शक्तिरूपत्वाद्वा मद्यमिव मदशक्तिः । गुणत्वाद्वा पटमिव शुक्लता । त्रेधाप्याश्रयविनाशे तस्य नाशात् । कुतो जन्मान्तराणि कथम्वा तेष्वभ्यासः कृपादेरिति चा र्व्वा का: । १ अतीन्द्रियं सर्व्वातीन्द्रियं । २ आकाशगान् तिरश्चः परचित्तानुसारिणः क्षणिकादीन् । * पुरुषार्थज्ञत्वेन । यतः २१ सत्यावबोधाद्धर्मचक्रादौ भगवान् सार्वज्ञं प्रतिज्ञातवान् । "वृत्तिस्तु “निरुपद्रवभूतार्थस्वभावस्यै” (प्र०१।२१२) त्यत्रोक्तो ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy