________________
प्र० वा. वृत्तौ (१ परिच्छेदः) प्रामाण्यञ्च परोक्षार्थज्ञानं तत्साधनस्य च । अभावात् ; नास्त्यनुष्ठानमिति केचित् प्रचक्षते ॥३१॥
प्रामाण्यञ्च परोक्षार्थज्ञानं, न सर्वस्येष्यते। तत्साधनस्याभावात्। अनुठाम कस्यचिन्नास्तीति कथन्तथाविधप्रमाणोपपत्तिरिति केचित् जैमिनी याः प्रचलते।(३१)
अत्राह। ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥३२॥
न खलु व्यसनितया प्रमाणमन्विष्यते प्रेक्षावद्भिरपि तु स्वर्गापवर्गप्रधानपुरुषार्थ प्रेप्सुभिः तद्विषयज्ञानवान् कश्चिदन्विष्यते तदुक्तस्योपायस्य प्रतिपत्तयेअनुष्ठानायं अहोपदेशकरणे विप्रलम्भनङ्किभिः विसम्वादं सम्भावयद्भिः ।।(३२)
तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् । १ कोटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥३३॥
दुःखोपशमोपायोपदेष्टुर्ज्ञानं मृग्यते यतस्तस्मादनुष्ठेयगतं संसारदुःखप्रशमोपायं ज्ञानमस्य प्रमाणपुल्वस्य विचार्यतां। अनुपयोगि कीटसंख्यापरिज्ञानन्तस्योपदेष्टुनोऽस्माकं न क्वचित्पुरुषार्थे उपयुज्यते इति न तद्विचार्यमिति प्रतिज्ञा प्रत्युपकारायपेक्षासमं सर्वसत्त्वेषु । तस्माद्यदेवं प्रेक्षावतामनुष्ठेयन्तद्विषयमुपदेष्टुं ज्ञानमुपयुक्तं नान्यविषयं । (३३)
(२) हेयोपादेयवेदकत्वात् न तु सर्ववेदकत्वात् १ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥३४॥ - तस्मादेयतत्त्वस्य दुःखसत्यस्य साभ्युपायस्य समुदय सत्यान्वितस्योपादेयतत्त्वस्य निरोधसत्यस्य साभ्युपायस्य मार्गसत्यसहितस्य प्रमाणपरिशुद्धस्य यो वेदकः स प्रमाणमिष्टो न तु सर्वस्य यस्य कस्यचिद्विवेदकः । न खलु सकलज्ञानादार्यसत्यचतुष्टयदेशनाऽपि तु तज्ज्ञानत्वात् तदुपदेष्टुतयैव च प्रामाण्यमिष्यते (१३४)
तदेवाह॥
'यत्साधनानुष्ठानात्प्रामाण्यं ।