SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ भगवान् प्रमाणम् प्राप्ताकुरजन्मनि हेतुर्भवति (1)स तु पूर्वपरैकरूपः क्रमाक्रमयोरर्यक्रियाविरोधात्। कुत एतदिति चेत् तस्य भूम्यादेः कर्षणपांसुप्रक्षेपादिना संस्कारे तस्याङकुरस्य पुष्टतरादिविशेषस्य वर्शनात्। (२७) यथा विशेषेण विना विषयेन्द्रियसंहतिः। बुद्धर्हेतुस्तथेदं चेन्न तत्रापि विशेषतः ॥२८॥ ननु यथा विशेषेण विना विषयेन्द्रियसंहतिरक्षेपक्रियाधर्मिणी बुढेहेतुर्भवति : तथेवमीश्वरादि वस्तुविशेष' म्विना सहकारिसन्निधानेन कार्य करोतीति चेत्। न(1) तत्रापि विषयेन्द्रियादिसंहतौ प्रागवस्थावदुपसर्पणप्रत्ययजनिताद्विज्ञानजननशक्तक्षणप्रज्ञालक्षणाद्विशेषात् ।(२८) . अन्यथा (1) पृथक् पृथगशक्तानां स्वभावातिशयेऽसति । . संहतावष्यसामर्थ्य स्यात् सिद्धोऽतिशयस्ततः ॥२९॥ . पृथक् पृथगशक्तानां विषयेन्द्रियाणां स्वभावातिशयेऽसति संहतावप्य सामथ्र्य स्यात्। ज्ञानार्जनम्प्रति स्वरूपाभेदात्। उत्पद्यते च ज्ञानं सिद्धोतिशयस्ततो ज्ञानोत्पादात्।(२९) .. b. संहतो हेतुता नेश्वरादौ ... तस्मात् पृथगशक्तेषु येषु संभाव्यते गुणः। संहतो हेतुता तेषां नेश्वरादेरभेदतः ॥३०॥ तस्मात् पृथगशक्तेषु येषु सम्भाव्यते गुणः स्वरूपान्तरोत्पादलक्षणं संहतो हेतुता तेषां क्षणिकानां नेश्वरादेर भेदतः। ईश्वरप्रधानपुरुषादेरकारकाभिन्नस्वरूपत्वान्न हेतुत्वमित्यु"पसंहारः। उक्तमीश्वरादिदूषणं ॥ (३०)॥ २. भगवान् प्रमाणम् (१) ज्ञानक्त्वात् भगवतोपि साधनाभावादप्रामाण्यं परमतेनाशकते। . 'पुनरनेकान्तत्वमिह। नातिशयोत्पत्त्याऽपि तु संयोगं जनयन्ति सहिताः संयोगात्कार्यमित्याह यथाकार्यजननाय नालं तया संयोगेपि। कार्यासामर्थ्यवत्। आदिना स्थिरात्मनां ग्रहः। ५ तस्मात् स्थितमेव तत्र नित्यं प्रमाणमिति।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy