________________
प्र० वा० वृत्तौ (१ परिच्छेदः)
चैत्रस्य शस्त्रविषयोः सम्बन्धाद् व्रणे व्रणरोहणे च वृत्तेऽसम्बद्धस्य व्यापारद्वारेणाप्रत्यासन्नस्य स्थाणोः किं कारणत्वं न कल्प्यते निमित्तस्य समानत्वात् । (२४) नन्वकारणावस्थातो व्यापारसमावेशादस्ति विशेषः कारणावस्थायामित्याह' । स्वभावभेदेन विना व्यापारोपि न युज्यते ।
१८
• स्वभावभेदेन विना न केवलं कारकत्वं (1) व्यापारोपि निर्व्यापारस्य नित्यस्य . न युज्यते (1)
किञ्च (1) नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयम् ॥२५॥
नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयं दुरवगमं न ह्यस्तीति कारणम् (i) अपि तु यदभावात्कार्याभावः स तत्कारणमन्यथाऽकाशादीनामपि हेतुत्वप्रसङ्गः ।" (२५)
अपि च (1)
3 येषु सत्सु भवत्येव यत् तेभ्योऽन्यस्य कल्पने ।
तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थिति: ॥२६॥
- येषु कारणेषु सत्सु यत्कार्यम्भवत्येव तेभ्यः कारणेभ्योन्यस्य पदार्थस्य तत्कार्य-, egree कल्पने सर्व्वत्र कार्यहेतुनामनवस्थितिः प्राप्नोत्यपरापरकल्पनया (1) तस्माद् दृष्टसामर्थ्या एव क्षितिबीजादयः कारणमङकुरस्य नेश्वरादिरदृष्टसामर्थ्यः । (२६)
1
ननु क्षित्यादिरप्यकारकावस्थातो न विशिष्टस्वभावः कारणावस्थायामङकुरस्येत्याह (1)
स्वभाव परिणामे न हेतुरङ् कुरजन्मनि ।
भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात् ॥२७॥
उपसर्पणप्रत्ययाददृष्टसह 'कारिणः प्राप्तकार्योत्पादानुगुणातिशया भूम्यादिः स्वभावपरिणामे न कार्यानुगुणातिशयतारतम्यमुक्तापरापरक्षणलक्षणेनान्त्यावस्था
'पूर्व्वस्यासिद्धि परिहरति शशविषाणवत् ।
* निमित्तकारणमीशस्तन्तुवायवदित्याह ।
8.
यदा तदा तत्कारणं । एतेन पूर्व्वस्यानेकान्तमाह । असंस्कृतक्षेत्रादय: (1) " आद्युत्पत्तौ जगतो निमित्तमिति चेन्न तेनैवानेकान्त ईश्वरान्तरप्रसङ्गात् तन्मात्र हेतुत्वे कर्मवैफल्यं ॥
C
वृष्टयादि ।