SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ईश्वरदूषणम् मुक्तं शब्दासिद्धावपि सिध्यति (1) तथा हि वैशेषिकस्यासर्वगतं द्रव्यपरिमाणं मूर्तिरिष्टा बौद्धस्य स्पर्शवति' सा प्रसिद्धा। ततो नोभयसम्प्रतिपन्ना मूर्तिशब्दवृत्तिाच्यभेदात्। ___ शब्दस्यासिद्धावपि च स्पर्शवत्त्वलक्षणोर्चा द्वयोरपि सिद्धः स एव हेतुत्वेनाभिप्रेत इति भवति साधनमतश्च (1) तस्यैव व्यभिचारादौ शब्देप्यव्यभिचारिणि । दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः ॥२२॥ तस्यैवार्थस्य व्यभिचारादावादिशब्दादसिद्धत्वे विपर्यायव्याप्तौ च शन्देप्य व्यभिचारिणि दोषवत्साधनं ज्ञेयं कस्माद्वस्तुनो हेतोवस्तुनः साध्यस्य सिद्धितः। एवं साध्यव्याप्तार्थशून्यशब्दमात्रकाणीश्वरसाधनानि दोषवन्ति बोद्धव्यानि। (२२) . . (ख) ईश्वरबाधकं प्रमाणम् .. ननु किं पुनरीश्वरस्य बाधकं प्रमाणमित्याह (1) यथा तत कारणं वस्तु तथैव तदकारणम् । यदा तत् कारणं केन मतं नेष्टमकारणम् ॥२३॥ यथा सदृशेन स्वभावेन तवीश्वराख्यं वस्तु कारणमिष्टं सर्गावस्थायां तथैव . तेनैव स्वभावेन सर्गात् प्राक् तन्न कारणं केन विशेषेण मतं । न त्व'कारणमिष्टं। कारणत्वं हकारकावस्थाविशिष्टत्वेन व्याप्तं तदभावात्कारणत्वाभावः । (२३) ... . अकारकं न कारणम् यदि पुनरकारकावस्थाऽविशिष्टोपीश्वरः कारणमुच्यते तदा (1) शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे । असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ॥२४॥ १.द्विविषं ब्रव्यं सर्वगतं पृथिव्यावि असर्वगतं घटादि। न हि स परिमाणं नाम किञ्चिविच्छति। ....... यथा विषाणी शाबलेयः कलभो वा गोत्वात् हस्तित्वाता गमनात् हस्तयोगात्यर्थः। ४ विश्वकारणमीश्वर इत्यत्र। ' योऽकारकावस्थाऽविशिष्टौ न स करोति स इवं अविशिष्टश्चायमिति . व्यापकानुपलब्धिः। 'अकारणमेवेष्यतां कारणावस्थायामप्यकारकावस्थाविशेषात् ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy