SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४५६ प्र० वा. वृत्तौ० (४ परिच्छेदः) नैमित्तिकाभावास्येष्टत्वात्। सामयिकन्तु सर्वत्राशक्यवारणमिति तच्छब्दयोग्यताप्यबाध्या। (१२४) तस्मादवस्तुनियतसंकेतबलभाविनाम् । योग्याः पदार्था धर्माणामिच्छाया अनिरोधनात् ॥१२५।। तस्मादवस्तुनियतो वस्तुन्यनियत इच्छाधीनत्वात् संकेतस्तस्य बलाद् भाविनां धर्माणां वाच्यत्वादीनां पदार्थाः सर्वे धमित्वेन योग्याः। इच्छातः पुंसः केनचिद् वाच्यत्वाधुत्था पिकाया इच्छाया अनिरोधात् । (१२५) तां योग्यतां विरुन्धानं संकेताप्रतिषेधजा। प्रतिहन्ति प्रतीत्याख्या योग्यताविषयेऽनुमा ॥१२६॥ तामिष्टशब्दाभिधेयत्वयोग्यतां पदार्थानां सत्तवादिकाद्धेतोविरुन्धान प्रतिक्षिपन्तं वादिनं प्रतीत्याख्या प्रतीतिसंज्ञिताऽनुमा प्रतिहन्ति। संकेताप्रतिषेधजेति स्वभावलिङ्गजत्वमाह। इच्छाधीनत्वात् योग्यताविषये विपरीतधर्मोपस्थानमाह। प्रयोगः पुनः (1) यः पुरुषेच्छानुभिधायी स सर्वत्र सम्भवी तद्यथा. विकल्पः पुरुषेच्छानुविधा यि चार्थेष्विष्टशब्दाभिधेयत्वमिति । (१२६) शब्दानामर्थनियमः संकेतानुविधायिनाम् । नेत्यनेनोक्तमत्रैषां प्रतिषेधो विरुध्यते ॥१२७॥ अनेन चेष्टशब्दाभिधेयत्वयोग्यताप्रतिषेधबाधनेन दर्शितेन शब्दानां संकेतानुविधायिनामर्थनियमः प्रतिनियतवाचकत्वं नेत्युक्तम्भवति। ततोस्य स्वेच्छाकल्पितोऽर्थे एषां शब्दानां वाचकत्वस्य प्रतिषेधः सत्त्वादिहेतोः क्रियमाणो विरुध्यते। (१२७) ___ यद्येवन्तदा क्वचिदर्थे निषेधं कुर्वता शब्दो बाध्यः स्यात् । ततश्च गुणा' दिकं निमित्तभूतं गुणादि शब्दानां गुणगुणिसम्बन्धादिपारमार्थिकमर्थं गुणिशब्दादीनां निषेधन् बाध्यः स्यादित्याह । येन कल्पितमर्थ शब्दानां बाधमानः प्रतिक्षिप्यते। न तु गुणादिकं तेन (1) नैमित्तिक्याः श्रुतेरर्थमर्थम्वा पारमार्थिकम् । शब्दानां प्रतिरुन्धानोऽबाधनाहों हि वरिणतः ॥१२८॥ 'प्रतिज्ञादोषो भवति । जात्यादि।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy