SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ प्रतीतिबाधा ४५५ सर्वलोकसिद्धया पुरुषेच्छाधीनया घटादावपि वृक्षशब्दयोग्यताप्रतीत्या सपक्षाभावेनासाधार*णत्वाद् वृक्षशब्दवाच्यत्वाभावस्य साधनात् (।) यथोक्तमेवासाधारणत्वमाचार्यस्येष्टं। (१२१) यदप्यु'च्यते द्वितीयस्य चन्द्रस्याभावादसाधारणतेति तत्राह (1) अत्रापि लोके दृष्टत्वात् कर्पूररजतादिषु । समयाद्वर्तमानस्य काऽसाधारणतापि वा ॥१२२॥ लोके कर्पूररजतादिषु गान्धिकवाचिकादीनां समयावर्त्तमानस्य दृष्टत्वादत्राचन्द्रः शशी सत्त्वादित्युदाहरणे हेतोरसाधारणतापि का वा। यदि द्वितीयचन्द्रो न भवेत्। एवमसाधारणता : स्याद् वस्तुत्वस्य। (१२२) स्यादेतत् (1) तत्समयादपि वर्तमानस्य चन्द्रत्वादेर्न शब्दवाच्यता। ततो यथा न वह्निशब्दवाच्यता कर्पूरस्य' तथा चन्द्रशब्दवाच्यता च न स्यादित्यसाधारणतैवेत्याह। यदि तस्य कचित् सिध्येत् सिद्ध वस्तुबलेन तत् । ___ तस्यैवंवादिनः सत्यपि सामयिके चन्द्रे क्वचिदर्थविशेषे चन्द्रशब्दवाच्यत्वं यदि सिध्येत् न तु सर्वत्र कर्पूररजतादौ तदा तच्चन्द्रशब्दवाच्यत्वं वस्तुबलेन सिद्ध स्यात्। न त्वेवं दृश्य ते सर्वस्य कर्पूरादेश्च शब्दाभिधेयत्वदर्शनात्। ___ अथ यत्रैव कल्प्यते चन्द्रत्वं तदेव तच्छब्दवाच्यं प्रतीयत इति तथाभ्युपगम्यते तदा। प्रतीतिसिद्धोपगमेऽशशिन्यप्यनिवारणम् ॥१२३॥ सामयिके चन्द्रत्वे क्वापि प्रतीत्या सिद्धस्य चन्द्रशब्दवाच्यत्वस्योपगमे। शशिन्यपि तच्छन्दवाच्यस्यानिवारणं । (१२३) तस्य वस्तुनि सिद्धस्य शशिन्यप्यनिवारणम् । तद्वस्त्वभावे शशिनि वारणेपि न दुष्यति ॥१२४॥ शुक्लतादिके निमित्तभूते वस्तुनि । तस्य चन्द्रशब्दाभिधेयत्वस्य सिद्धस्य शशिन्यपि निमित्तसद्भावादनिवारणं" तस्य निमित्तभूतस्य वस्तुनः शशिन्यभावे तु चन्द्रशब्दवाच्यत्वस्य वस्तुत्वाद्धतोारणेपि न किञ्चिद् दुष्यति। निमित्ताभावे 'न्या य मुख टीकाकारमुपक्षिपति।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy