________________
४५४
प्र० वा० वृत्तौ० (४ परिच्छेदः)
ग, वस्तुबलप्रवृत्तमनुमानम्
तेनानुमानाद् वस्तूनां सदसत्तानुरोधिनः । भिन्नस्यातद्वशा वृत्तिस्तदिच्छाजेति सूचितम् ॥ ११९ ॥
तेन ' विषयभेदेन वस्तूनां सदसत्तानुरोधिनोऽनुमानात् भिन्नस्य कल्पितस्यार्थस्य शब्दयोग्यत्वस्य वृत्तिरतद्वशा वस्त्वनायत्ता तस्य पुरुषस्येच्छाजेति सूचितं भवति । (११९)
किञ्च (1)
चन्द्रतां शशिनोऽनिच्छन् कां प्रतीतिं स वाञ्छति । इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम् ||१२०||
शशिनः सर्व्वजनसिद्धां व्यावहारिकीं चन्द्रतां चन्द्रशब्दवाच्यतां अनिच्छन् परः कामन्यां प्रतीति स वाञ्छति (1) यया वाच्यतासिद्धिः क्वचित् स्यात् । मता च पारमार्थिकी वाच्यताप्रतीतिर्न क्वचिदस्ति । वस्तुतः सर्व्वस्यावाच्यताप्रदर्शनात् कंल्पितवाच्यताप्रतीतिस्तु पुरुषेच्छामात्रप्रभवत्वात् सर्व्वत्राव्याहतैव । अतः सर्व्वस्य चन्द्रशब्दवाच्यतायोगात् सपक्षो नास्तीति तं चन्द्रतापलापिनं वादिनं प्रति सत्वं लिङ्ग’मदृष्टान्तमसाधारणमुक्तमाचार्येण न तु चन्द्रस्यैकस्यान्यत्रासम्भवात् सपक्षविपक्षयोरभावादसाधारणत्वमभिप्रेतमा चार्य स्य । अचन्द्रत्वे साध्ये घटादेः सपक्षस्य सत्वात्। चन्द्रस्तु विपक्षो मा भूत् ( 1 ) तथापि हेतुनिवृत्तिरस्मादव्याहतैव । असतोपि हेतुनिवृत्तेः साधनात् । (१२० )
अपिच ( 1 )
नोदाहरणमेवेदमधिकृत्येदमुच्यते ।
लक्षणत्वात् तथा वृक्षोऽधात्रीत्युक्तौ च बाधनात् ॥१२१॥
२
अचन्द्रः शशी सत्त्वादित्येतदेवोदाहरणमधिकृत्येदं शब्दवाच्यत्वप्रतिक्षेपहेतोरसाधारणत्वं नोच्यते । लक्षणत्वात् । लक्षणेन हि लक्ष्यं व्याप्तं दर्शनीयं न च द्वितीयचन्द्राभावेनासाधारणतोक्तिरुदाहरणान्तरं व्याप्नोति । यथा वा चन्द्रतायाः प्रतीत्या बाधेष्यते तथाऽधात्री वृक्षः सत्त्वात् घटादिवदित्युदाहरणोक्तौ
१ भेददर्शनेपि किं फलमित्याह ।
* सर्व्वप्रतीतिविरोधानां सामान्येन लक्षणत्वात् ।
पार्थिवत्वात् ।