SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४५३ प्रतीतिबाधा कथं गम्यते · सर्वेषां शब्दानां सर्वत्रार्थे सिद्धिरित्याह। संकेतसंश्रयाः शब्दाः स चेच्छामात्रसंश्रयः । नासिद्धिः शब्दसिद्धानामिति शाब्दप्रसिद्धिवाक् ॥११६॥ सङ्केतमन्तरेण वाचकादष्टः संकेतसंश्रयाः शब्दाः स च संकेतः पुरुषेच्छामात्रसंश्रयः (।) तदतिरिक्तस्यापेक्षणीयस्याभावात् । तस्माच्छब्दसिद्धानामभिधेयत्वादीनां क्वचिदप्यर्थे नासिद्धिः। इति हेतोः शाब्दप्रसिद्धिराचार्यस्य ॥ (१९६) एतच्च शाब्दप्रसिद्धिवचनम् (।) अनुमानप्रसिद्धेषु विरुद्धाव्यभिचारिणः। . अभावं दर्शयत्येवं प्रतीतेरनुमात्वतः ॥११॥ वस्तुबलप्रवृत्तेनानुमानेन प्रसिद्धेष्वर्थेषु विपरीतधर्मो पस्थापकस्य विरुद्धाव्यभिचारिणः साधनान्तरस्याभावन्दर्शयति। कस्मादित्याह । एवमी'दृश्याः शब्दसिद्धाया योग्यतायाः प्रतीतेः २ स्वभावलिङ्गसमुत्थत्वात् अनुमात्वतः। यथा शब्दसिद्धा योग्यताऽनुमानसिद्धेति बाध्या सत्वादिहेतुना (1) तथाऽन्योपि वस्तुबलप्रवृत्तानुमानविषयः समानत्वात् न्यायस्येत्यर्थः । (११७) अथवा ब्रुवतो लोकस्यानुमाऽभाव उच्यते । किन्तेन भिन्नविषया प्रतीतिरनुमानतः ॥११८॥ अथवाऽचन्द्रः शशी सत्वादिति विप्रति 'पद्यमानं प्रतिपत् प्रतिपादनार्थं लोकस्य ब्रुवतः शाब्दप्रसिद्धनासाधारणत्वादनुमानाभाव आचार्येणोच्यते। पारमार्थिकस्य बाध्यत्वस्याभावात् । कल्पितं निषेध्यं तच्च पुरुषेच्छामात्राधीनत्वात् सर्वत्र सम्भवतीति सर्वस्य चन्द्रशब्दयोग्यतायोगान्न कश्चिदचन्द्रः पक्षोस्ति यत्र वर्तमानसत्त्वमसाधारणतां जह्या । एवन्दर्शिते किम्भवतीति चेत्। तेनानुमानाभावाभिधा' यिना शब्दप्रसिद्धाभिधानेन शब्दसिद्धा प्रतीतिर्वस्तुबलप्रवृत्तानुमानतों भिन्नविष-g1b योक्ता भवति। वस्तुविषयं ह्यनुमानं कल्पितगोचरान्तरा शाब्दी प्रतीतिरित्यर्थः॥ (११८) ' लक्षणयुक्ते बाधासंभवे लक्षणमेव दूषितं स्यात्। २ अनुमीयतेऽनयेति प्रसिद्धरनुमात्वात्। लोकश्चन्द्रः शशी ह्लादनाद्धासनाद्वा कर्पूरादिवत् न तत्तस्यासिद्धं । ४ किं फलमित्याह ? वस्तुतः शशिनि चन्द्रत्वमपि शब्दबलात्।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy