________________
४५२
प्र० वा. वृत्तौ० (४ परिच्छेदः) अर्थमात्रानुरोधिन्या भाविन्या भूतयापि वा।
बाध्यते प्रतिरुन्धानः शब्दयोग्यतया तया ॥११२॥ अर्थमात्रानुरोधिन्या तया शब्दयोग्यतया भाविसंकेतापेक्षया भाविन्या। अतीतसंकेतापेक्षया भूतयापि वा व्यवस्थितया तामेव (योग्यतां प्रतिरुन्धानः । यथाऽचन्द्रः शशी सत्वादिति बाध्यते) । (११२)
तद्योग्यताबलादेव वस्तुतो घटितो ध्वनिः।
सोस्यामप्रतीतेपि तस्मिंस्तत्सिद्धता ततः॥११३।। योग्यताबलादेव वस्तुतः सामर्थ्यात् सर्वः संकेतितोऽसंकिततश्च ध्वनिरस्यां योग्यतायां घटितः सम्बद्धः साक्षात् वाचकत्वेन तस्मिन् शब्देऽप्रतीतेपि वस्तुनि अप्रातिकूल्यलक्षणस्य योग्यत्वस्य सर्वदा स्थितेः। यत एवं ततस्तस्या योग्यतायाः शब्दप्रसिद्धताचार्येणोक्ता। यद् यत्र समर्थ तदसंमुखीभावेपि तत् तेन व्यपदिष्य (? श्य)ते यथा पाचक इति। समर्थञ्च वस्त्विष्टशब्दाभिधे"यत्व इति कृत्वा शाब्दप्रसिद्ध इति । (११३)
असाधारणता न स्यात् बाधाहेतोरिहान्यथा ।
तनिषेधोऽनुमानात् स्याच्छब्दार्थेऽनक्षवृत्तितः ॥११४॥ ___ अन्यथा यदि शब्दोऽसंमुखीभवन्नपि योग्यतायां न सम्बद्धः। तदेह शब्दयोग्यताप्रतिषेधे कर्तव्ये बाधाहेतोरचन्द्रः शशी सत्वादेरित्यादेरसाधारणतोक्ता न स्यात्। सर्वस्य चन्द्रशब्दयोग्यत्वे सपक्षाभावात्मत्वसाधारणं स्यान्नान्यथा। शब्दार्थे योग्यतालक्षणे कल्पितेऽनक्षवृत्तितः। अक्षवृत्त्यभावात्। प्रत्यक्षबाधकमिति' तस्या योग्यताया निषेधोनुमानात् स्यात् ।(११४)
असाधारणता तत्र हेतूनां यत्र नान्वयि ।
सत्त्वमित्यस्योदाहारो हेतोरेवं कुतो मतः ॥११५।। तत्र योग्यताप्रतिषेधे कर्त्तव्ये सर्वेषां हेतूनां सपक्षाभावात् असाधारणता' कथमेतदित्याह (1) यत्र साध्ये सत्त्वमपि लिङ्गं सर्व्ववस्तुव्यापि नाऽन्वयि साधारणं भवति तत्रान्यस्य का कथेति हेतोः कृतकत्वस्योदाहार आचार्यस्यैवं फल: सर्वहेत्वसाधारणत्वप्रतिपादनप्रयोजनो मतः । (११५)
'सर्वः शब्दो योग्यतायां स्वभावतो घटत इति न कश्चिदचन्द्रोस्ति सपक्षो यत्र वृत्तं लिङ्गमन्वयि स्यात्।
२ अथवाऽसाधारणत्वादनुमानाभाव इत्यस्यायमन्योर्थः। योऽचन्द्रत्वं प्रतिजानीते तं प्रति ब्रुवतो लोकस्यानुमानेत्युच्यते तावन्तावनिष्टौ कथमन्यत्रेष्टिः स्यात् ॥