________________
प्रतीतिबाधा
४५१
क. प्राप्तलक्षणम् प्रतीतिबा धां व्याख्यातुमाह।
अर्थेष्वप्रतिषिद्धत्वात् पुरुषेच्छानुरोधिनः।
इष्टशब्दाभिधेयस्याप्तो वाक्षतवारजनः ॥१०९॥ इष्टशब्दाभिधेयत्वस्याभिमतवाच्यत्वस्य पुरुषेच्छानुरोधिनः पुरुषेच्छाधीनस्यार्थेष्वप्रतिषिद्धत्वात् (1) न हि पुरुषेच्छायामपि शशी चन्द्रशब्दं वाचकतया न स्वीकरोति। ततश्चाष्टशब्दाभिधेयत्वे विषये आप्तो व्यवहर्ता जनोऽक्षतवागप्रतिषिद्धेष्टवचनः। अनेन शब्देनायमर्थो मयाऽभिधातव्य इति कल्पनाविषयत्वमिष्टशब्दाभिधेयत्वं । तत्र च पुरुषस्यारोपेण स्वेच्छाधीना वचनप्रवृत्तिः। तस्मादिष्टशब्दाभिधेयत्वबाधः पक्षीक्रियमाणस्तेनैव स्वसम्वेदनसिद्धेन बाध्यते।(१०९) ___ उक्तः प्रसिद्धशन्देन धर्मस्तद्वयवहारजः।।
प्रत्यक्षादिमिता मानश्रुत्यारोपेण सूचिताः॥११०॥ चन्द्रश्चन्द्र इत्यादिशब्दव्यवहाराज्जातो धर्मः कल्पनाविषयो योग्यताख्य आचार्येण प्रसिद्धशब्देन तद्यथा शाब्दप्रसिद्धेनेत्यादिनोक्तः । शाब्दी प्रसिद्धिर्व्यवहारः शाब्दप्रसिद्धिः तद्भवो विषयः शाब्दप्रसिद्धः तेन बाधेत्यर्थः। न केवलमिहेव प्रत्यक्षादिबाधास्वपि मानश्रुतौ' मेयस्यारोपेण प्रत्यक्षादिभ्यामनुमानागमाभ्यां मितार्था एव विरोधिनो वाचकत्वे पक्षस्य सूचिताः।(११०) । ___ न हि प्रत्यक्षानुमाने पुरुषचित्तवत्तिनी आगमश्च बाध्यमाने धमिणि सम्भवन्ति । तदुपलब्धतद्धाः सन्तो युज्यन्ते बाधकास्तस्मात् (1)
तदाश्रयभुवामिच्छोनुरोधादनिषेधिनाम् ।
कृतानामकृतानां च योग्यं विश्वं स्वभावतः ॥१११॥ तस्य लोकस्याश्रयेण भुवां भवतां शब्दानां व्यावहारिकाणां'इच्छानुरोधिना(अ) gra ऽर्थेषु वाचकत्वप्रवृत्तेः कारणात् क्वचिदपि विषयेऽनिषेधिनां निषेधरहितानां कृतानां संकेतितानामसंकेतितानाञ्च विश्वमिदं वाच्यत्वेन स्वभावादेव योग्यं ॥(१११)
ख. योग्यता प्रसिद्धिशब्दार्थः यतश्चेष्टशब्दाभिधेयत्वयोग्यता सर्वत्र सम्भवति । अतो विशेषानपेक्षणाद् (।)
'नेह प्रत्यक्षादिबाधकं किं त्वेतैमिताः प्रत्यक्षानुमानशास्त्रं परिच्छिन्नाः श्रावणत्वादयः प्रतिज्ञार्थस्य। प्रत्यक्षातिश्रुतौ श्रावणत्वाद्यारोपण।
एषः (?) तत्रोपलब्धात् तस्य च धर्मा (6)।