________________
४५० प्र० वा. वृत्तौ० (४ परिच्छेदः)
विरोधोद्भावनप्राया परीक्षाप्यत्र तद्यथा।
अधर्ममूलं रागादि स्नानश्चाधर्मनाशनम् ॥१०७॥ अत्र शास्त्र परीक्षापि या क्रियते सा पूर्वापराभ्यां विरोधोद्भावनप्राया न वास्तवी तद्यथाऽधर्मस्य मूलं रागादीति क्वचिदुक्तं स्नानञ्चा'धर्म नाशन-२ मित्यत्रोच्यमानम्विरुणद्धि। रागादयो हि पापनिदानं न च निदानाविरोधे निदानिनो बाधा। तत्कथं रागाद्यविरोधि स्नानं पापविरोधि स्यात् ।। अप्रमाणे शास्त्रे विरोधोद्भावनप्रायापि चिन्ता कस्मात् प्रवर्त्यते इति चेत्। दानादिचेतनानां प्रवृत्तेर्महानुसंशा (? शंसा) श्रवणात् (1) हिंसादिचेतनानां महापापश्रवणाच्च (1) अपेक्षितफलेषु दानादिष्वयं पुरुषः प्रवृत्तिका मो नागमप्रामाण्यमनाश्रित्यासितुं समर्थः। (१०७)
(६) प्रतीतिबाधा ततः (1)
शास्त्रं यत्सिद्धया युक्त्या स्ववाचा च न बाध्यते ।
दृष्टेऽदृष्टेपि तद् ग्राह्यमिति चिन्ता प्रवर्त्यते ॥१०॥ यच्छास्त्रं दृष्टे प्रमाणे विषये युक्त्या प्रत्यक्षाद्याख्यया न बाध्यते। अदृष्टे प्रमाणविषये च स्ववाचाऽगमाश्रये णानुमानेन न बाध्यते (1) तत्प्रमाणत्वेनादृष्टे विषये प्रवृत्तिकामस्य ग्राह्यं न तु यत्किञ्चिदित्यनेन प्रयोजनेन शास्त्रे विरोधोद्भावनप्राया चिन्ता प्रवर्त्यते। (१०८)
शास्त्रस्ववचनविरोधौ व्याख्यातौ।
१जपहोमादि। २ चित्तमन्तर्गतं दुष्टं ती(र्थ)स्नानैर्न शुध्यति । शतशोपि तद्धौतं क्षुराभाण्डमिवाशुचि ॥
पुनः
गङ्गाद्वारे कुशावर्ते विल्वकीनीलपर्वते। स्नात्वा कनखले तीर्थे सम्भवेन्न पुनर्भवे ॥
। यद्यन्निदानं न बाधते तन्न तद्वाधकं यथा श्लेष्मणो मधुरादि ॥ ये यनिदान बाधनास्तेभ्यः तन्निवृत्तिर्यथा शीलं दुश्चरितस्य समाधिः पर्यवस्थानस्य। प्रज्ञाऽनुशयस्य बाधिका। .
अत्यन्तपरोक्षे।