SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ प्रतीतिबाधा तेनाभ्युपागमाच्छास्त्रं प्रमाणं सर्ववस्तुषु । बाधकं, यदि नेच्छेत् स बाधकं किम्पुनर्भवत् ॥ १०४॥ शास्त्रस्य तेन वादिनाभ्युपगमात् सर्व्वत्र वस्तुषु धर्मिषु शास्त्रसिद्धे वस्तुबलप्रवृत्ते प्रमाणनिश्चितेषु च शास्त्रं प्रमाणं सत् बाधकमेव स्यात् ( 1 ) विपरीतप्रतिज्ञाया न प्रतिबन्धकं । तत्कथं प्रमाणीकृतशास्त्रस्य मीमान्सकस्य शब्दे प्रत्यक्षसिद्धे कृतकत्वादनित्यत्वप्रतिज्ञायाः साध्यमानायाः शास्त्रेण प्रतिबन्धो न बाधेत्युक्तं । ' अथ स वादी यदि शास्त्रं प्रमाणं नेच्छेत् तदा किं पुनर्द्धर्मस्यासुखप्रदत्वस्य बाधायां प्रमाणं भवेत् । न ह्यप्रमाणं क्वचित् प्रमाणीकृतशास्त्रस्य शब्दे प्रत्यक्षसिद्धे भवितुमर्हति । (१०४) धर्मस्य सुखप्रदत्वेन निर्देशादसुखप्रदत्वे साध्ये स्ववचनविरोध एवेति चेत् । एवं तर्हि (1) स्ववाग्विरोधेऽभेदः स्यात् स्ववाकूशास्त्रविरोधयोः पुरुषेच्छाकृता चास्य परिपूर्णा प्रमाणता || १०५ || स्ववाग्विरोधेऽभ्युपगम्यमाने स्ववाक्शास्त्रविरोधयोरभेद एव स्यात् । द्वयो' रभ्युपगमसिद्धप्रमाणत्वात् । पुरुषेच्छाकृता चास्य शास्त्रस्य परिपूर्णा प्रमाणतेत्युपहसति । सत्यप्यागमस्ववचनयोरभ्युपगमाहितप्रामाण्यादभेदे भेददर्शननिमित्तञ्चोक्तं । (१०५) यस्माच्छास्त्रं तत्सिद्ध एव धर्मिणि लिङ्गे च बाधकं न तु प्रमाणसिद्धेपि । तस्मात् प्रसिद्धेष्वर्थेषु शास्त्रत्यागेपि न क्षतिः । परोक्षेष्वागमाऽनिष्टौ न चिन्तैव प्रवर्त्तते ॥ १०६ ॥ ४४९ तस्मात् प्रत्यक्षानुमानाभ्यां प्रसिद्धेषु धर्मिलिङ्गसाध्यसम्बन्धादिषु सत्सु शास्त्रत्यागेपि न क्षतिः २ । यथा शब्दकृतत्वानित्यत्वसम्बन्धादिषु प्रमाणसि - 1 द्वेषु शास्त्रस्याकाशगुणत्वप्रतिपादकस्य त्यागेपि नानिष्टं । परोक्षेषु धर्माधर्मादिषु पुनरागमस्य प्रमाणत्वेनानिष्टौ चिन्तैव न प्रवर्त्तते ( 1 ) नह्यसिद्धे धर्मिणि विचारः । (१०६) ३ ननु शास्त्रञ्चेन्न प्रमाणं कथन्तत्सिद्धे धर्मिणि लिङ्गादौ वा विचार इत्याह । 1 १ सिद्धान्ती बध्नाति । आगमो ग्राह्य एव । ५७ २ 'इष्टाप्रतिबन्धात् ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy