________________
me प्र०वा. वृत्तौ० (४ परिच्छेदः)
प्रामाण्यमागमानाञ्च प्रागेव विनिवारितम् । मन्मुपायविचारेषु तस्माद् दोषोयमिष्यते ॥१०॥ तस्माद् विषयभेदस्य दर्शनार्थ पृथक्कृतः ।
अनुमानाबहिर्भूतोप्यभ्युपायः प्रवाधनात् ॥१०॥ तस्मात् कार्यलिङ्गत्वादनुमानादबहिर्भूतोप्यभ्युपायो विषयस्य भेदो नानात्वं तहसनाईमनुमानात् पृथक्कृतः। अनुमानं सर्वत्र बाधकं शास्त्रन्तु शास्त्राश्रये धर्मिणीति बाधकत्वविषयभेदोपदर्शनं पृथक्करणफलं। कथं ज्ञायतेऽनुमानाबहिर्भूतं शास्त्रमित्याह । स्वसिद्ध धर्मिणि स्वोपगमविरुद्धस्य धर्मस्य प्रवाधनात् न ह्यप्रमाणम्बाधकं। प्रमाणञ्चाप्रत्यक्षत्वात् अनुमानमेव ॥ (१०१,१०२) ...अन्यथाऽतिप्रसङ्गः स्याद् व्यर्थता वा पृथक्कृतेः।
अन्यमा यदि विषयभेदोपदर्शनफलं पृथक्करणं नेष्यते तदा प्रभेददर्शनार्थ वक्तव्यं । तथा च कार्यस्वभाषानुपलम्भानां प्रभेदो यावत् । सम्भवं वाच्य सापतिबा साल।
का भेदान्तरं नोच्यते तदाऽनुमानाच्छास्त्रस्य पृथक् कृतेर्व्यर्थता वा स्थापिपनस्याविवक्षितत्वात्। सामान्यवचनस्यानुमानेनैव सिद्धत्वात्। यदि विषयमेदोपदर्शनार्थमनुमानात् पृथग्वचनं शास्त्रस्य तदाभ्युपगमात् स्ववचनमाचार्येण किमयं पृथक्कृतं (न्यायमु खे) । यथा सर्वमुक्तं मृषेति (1) तथा औलूक्यस्य नित्यः शब्द इति। ____ अत्राह (1)
भेदो वाङमात्रवचने प्रतिबन्धः स्ववाच्यपि ॥१०३॥ ... स्ववाच्यपि भेदः स्ववचनस्यापि शास्त्रात् पृथक्करणं अप्रमाणकं वचनं पाल्मा तस्मिन् प्रतिबन्धः । उच्चारणसामर्थ्यादभ्युपगतप्रामाण्यं स्ववचनं । .... अन्ययोच्चारणमेव न स्यात्। सत्यार्थता च प्रामाण्यं तन्मृषार्थतया वाच्यया निषेध्यत इति तुल्यकक्षतया प्रतिबन्ध एवानयोर्न बाधा। तदेनं वाक्यं स्वार्थ प्रतिबध्नाति। वाक्यान्तरनिर्दिष्टम्वस्तु शास्त्रमित्यनयोर्भेद इत्युक्त। (१०३)
स्यादेतत् (।)
MPSC