SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ __आगमस्ववचनयोस्तुल्पबलता ४७ शामिणोष्यतदालम्बे विरुद्धोकौ तु वस्तुनि। _न बाधा प्रतिबन्धः स्यात् तुल्यकक्षतया तयोः ॥९८॥ शास्त्रिणोऽभ्युपगतशास्त्रस्यातवालम्बे शास्त्रासिद्ध ' प्रमाणसिद्ध वस्तुनि धर्मिणि शास्त्रप्रतिज्ञाविरुद्धस्य धर्मस्योक्तौ न सा बाधा। यथा मी मां स क स्यु गृहीतशास्त्रस्य प्रत्यक्षसिद्धे शब्दे धर्मिणि कृतकत्वादनित्यत्वोक्तावपि शास्त्रप्रतिज्ञातेन नित्यत्वेन न बाधा। यदि बाधा किन्तर्हि भवतीत्याह। प्रतिबन्धः ' स्यात् । कस्मादित्याह। तुल्यकक्षत्वात्। समबलत्वात्। यथा माता मे बन्ध्या चेति स्ववाचि तुल्यकक्षत्वात् पदयोः परस्परं प्रतिबन्धः। (९८) ननु स्ववचनयोस्तुल्यकक्षत्वाद् युक्तः प्रतिबन्धः। आगमस्ववचनयोस्तुल्यबलतैव कथमित्याह। यथा स्ववाचि तच्चास्य तदा स्ववचनात्मकम् । तयोः प्रमाणं यस्यास्ति तत् स्यादन्यस्य बाधकम् ॥१९॥ तच्च शास्त्रं नित्यत्वप्रतिज्ञातस्य वादिनः तदा प्रसिद्ध धर्मिणि शास्त्रविरुद्धप्रतिज्ञासमये स्वोपगमस्वीकृतप्रमाणत्वात् स्ववचनात्मकं जातं वचनं शास्त्रञ्च स्वयमभ्युपगतप्रामाण्ययुक्तं तुल्यकक्षं यथा स्वबाचि माता मे बन्ध्येति वचनमात्रयोः प्रतिबन्धोन्योन्यं तयोः शास्त्रवचनयोब्बिस्दार्थाभिधायिनोर्मध्ये यस्य प्रमाणमनुवर्तकमस्ति तत् प्रमाणवत्। अन्यस्याप्रमाणकस्य बाधकं भवति । यथाऽनित्यत्वं नित्यस्य शब्दे। (९९) ... प्रतिज्ञामनुमानं वा प्रतिज्ञापतयुक्तिका । तुल्यकक्षा यथार्थम्वा बाधेत कथमन्यथा ॥१०॥ - अन्यथा यदि प्रमाणसिद्धे मिणि प्रमाणाननुगृहीतयोः परस्परं बाधा। प्रमाणाभावे केनेतरस्य नाबाधेतीष्यते तदा प्रतिज्ञाविपरी'ता शास्त्रवचनाख्यातयुक्तिका प्रतिज्ञा प्रामाण्याभ्युपगमात् तुल्यकक्षा सती कथं बाधेत । यथा शब्दे नित्यत्वप्रतिज्ञा शास्त्रोक्ता अनित्यत्वप्रतिज्ञां विद्यमानमनुमानम्वा यथार्थ । वस्तुभूतकृतकत्वलिङ्गसमुत्थं नित्यत्वप्रतिज्ञया कथं बाधितं । स्यादनित्यत्वात्। (१००) १यो न शास्त्रेण दर्शितः। इति वचनात्मत्वाविशेषः। अपि च आगमानां प्रामाण्यं प्रागेव निवारितमिति कुतो बाधा। तस्मान्छास्त्रमभ्युपगम्य धर्मविचारेष्वयन्दोषः शास्त्रबाधाय इष्यते।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy