________________
प्र० वा. वृत्ती० (४ परिच्छेदः) लब्धः साक्षादस्यैव प्रमाण'स्य शास्त्रस्यात्यन्तपरोक्षार्थे विचार: प्रस्तूयते प्रेक्षनन्यिस्य। ततः शास्त्रस्ववचनयोः प्रामाण्येऽभ्युपगतेपि साम्यमुक्तं ॥(९४) साम्यमेव पुनः किमर्थमुपदर्शितमित्याह (1)
तत्प्रस्तावाश्रयत्वे हि शास्त्रं बाधकमित्यमुम् ।
वकुमर्थ स्ववाचास्य सहोक्तिः साम्यदृष्टये ॥१५॥ हि यस्मात् तत्प्रस्तावस्य विचारप्रक्रमस्याश्रयत्वेऽधिकरणत्वे सति शास्त्रं सिद्ध धर्मिणि शास्त्रं प्रतिज्ञार्थविरुद्धबाधकं न वस्तुबलप्रवृत्तानुमानमित्यमुमर्थ वक्तुमस्य शास्त्रस्य स्ववाचा साम्यस्य दृष्टये दर्शनार्थं सहोक्तिरनयोरभ्युपायतानिर्देशे। स्ववचनमपि ह्युच्चारणसामर्थ्यादु'पगतप्रामाण्यं सिद्ध धर्मिणि विचारक्रमे प्रतिज्ञार्थविषयबाधकं बाधकं दृष्टं (1) न वस्तुबलप्रवृत्तानुमानेन इदमनयोः साम्यदर्शनप्रयोजनं । (९५)
उदाहारणमप्यत्र सदृशं तेन वर्णितम् ।
प्रमाणानामभावे हि शास्त्रवाचोरयोगतः ॥१६॥ अत्र शास्त्रवचनयोः व्याघातेना चार्येणोदाहरणमपि सदृशमभिन्नं वर्णित ।। यथा न सन्ति प्रमाणानि प्रमेयार्थानीति। कथं पुनरत्र शास्त्रार्थस्ववचनाभ्यां व्याघात इत्याह। प्रमाणानामभावे हि शास्त्रवाचोरयोगतः। अनुपपत्तेः । प्रमाणसम्भवे हि शास्त्रवचनयोः परप्रतिपादनार्थमुक्तिर्युक्ता। तस्मादुच्चारणसामर्थ्यादभ्युपगतप्रामाण्यात् प्रयोगवचनादेव प्रमाणाभावप्रतिज्ञा बाध्यते।। - - एतच्चोदाहरणम् (1)
स्ववाग्विरोधे विस्पष्टमुदाहरणमागमे ।
दिङमात्रदर्शनं तत्र प्रेत्यधर्मोसुखप्रदः ॥९७॥ स्ववाग्विरोषे स्ववचनव्याहतौ — विस्पष्टं तथा हि प्रमाणाभावप्रतिज्ञावचनोच्चारणसामर्थ्याभ्युपगतप्रामाण्येन वचनेनैव बाध्यते। आगमे शास्त्रे पुनरुदाहरणस्य विङमात्रदर्शनमुपलक्षणमात्रमेतत्। न तुं मुख्यमुदाहरणं। प्रमाणस्य धर्मिण आगमसिद्धत्वाभावात्। इदं पुनर्मुख्यमुदाहरणं आगमे प्रेत्य परलोके धर्मोऽसुखप्रदः (1) आगमसिद्ध धर्मिणि धर्म सामान्येऽसुखप्रदत्वस्य विशेषस्य सुखप्रदत्वेन विरुद्धनागमसिद्धेन बाधनात्।(९७)
किन्तु (1)
'स्वाप्रामाण्यबोधेनुच्चारणात्।