________________
प्र० वा० वृत्तौ० (४ परिच्छेदः)
इह प्राणसमुच्च (य) लक्षणे निष्ठा वर्त्तमानसाध्यत्वेष्टिप्रतिपादनमस्यनङ्गमहेतुः । न्या य मुखे तेन कृत्यान्तेन सम्बन्धाभावे' नेप्सितपदे पुनरङ्गमेव निष्ठा वर्तमानसाध्येच्छाबोधने तया' वर्तमानसाध्येच्छाबोधिकयाऽसिद्धहेत्वाद्यपीष्यमाणं साध्यत्वेन प्रतिषिध्यते । तस्मान्न धर्मिणः साध्यता * प्रतिक्षेपार्थं स्वयंग्रहणं सिद्धत्वे नैव तत्परिहारस्य लब्धत्वात् ॥ ( ८८ )
नापि शास्त्रेष्विच्छाप्रवृत्त्यर्थं ॥ मिच्छामात्रेणैव तद्ग्रहणस्य सिद्धत्वादित्युक्तं ।
m
'श्रवाचकत्वच्चायुक्तं तेनेष्टं स्वयमात्मना । अनपेक्ष्याखिलं शास्त्रं तद्वादीष्टस्य साध्यता ॥८९॥
अवाचकत्वाच्चायुक्तं । तदर्थं स्वयग्रहणं । न हि स्वयंशब्दः स्वेच्छया शास्त्रं ग्राह्यमित्येतदर्थवाचकं किन्तु वादिन एव वाचकः । तेन तद्वाचकत्वेन स्वयं वादिनाऽत्मना शास्त्रमखिलमनपेक्ष्य यदिष्टं तस्य वादीष्टस्य साध्यतेष्यते न शास्त्रेष्टस्येत्युपसंहारः । (८९)
तेनानभीष्टसंसृष्टस्येष्टस्यापि हि बाधने ।
यथा साध्यमबाधातः पक्षहेतू न दुष्यतः ॥९०॥
तेन कारणेन वादिनोनभीष्टेनाकाशगुणत्वेन संसृष्टस्येष्टस्यानित्यत्वस्यापि हि बानेऽभिधीयमाने पक्षहेतु न दुष्यतः । किङ्कारण मित्याह । यथा साध्यमबातः । न हि वादिनाऽकाशगुणत्वैकार्थसमवाय्यनित्यत्वं साधयितुमिष्टं येनास्य बाघः स्यात् किन्त्वनित्यत्वमात्रं । न चास्य प्रत्यक्षादिबाधास्ति । हेतोर्व्वा तदपेक्षया विरुद्धतादिकं । तदेवं स्वयं निपातरूपाख्या व्यतिरेकस्य बाधिकाः सहानिराकृतेनेति व्याख्यातं ॥ (९०)
(३) सहानिराकृतमहाफलम्
अनिराकृतपदं व्याख्यातुमाह ।
अनिषिद्धः प्रमाणाभ्यां स चोपगम इष्यते । सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः ॥९१॥
निष्ठया । ★ समग्राहिता ह्युक्ता ।
* विचारप्रस्तुतेरेव प्रसिद्धः सिद्ध आश्रयः ।
* दृष्टानुमेयवचनेन ।
1.
४ असाध्यतामित्याद्युक्त ।