________________
अन्यथा स्वयंशम्बोजक निराकृतस्य पक्षत्वं सक्तं निषिध्यते । इष्टभुतिरव्याप्तेबांधनी। ईष्टशब्दे सक्रियमाणे निर्दिष्टमेव साध्यं साध्यं स्यात् न प्रकरणापन्नमिष्टं ॥ (८५)
यदि "स्वयंनिपातरूपाख्या व्यतिरेकस्य वाषिकाः" प्रमाण स मच्च यलक्षणे निर्दिष्टास्तदा न्यायमुखे “साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकत" इति पक्षलक्षणे ता न सन्तीति कथन्तेनाव्याप्तिव्यतिरेकयोः परिहार इत्याह साध्यत्वेनेप्सितः पक्ष इति (1) . साध्याभ्युपगमः पक्षलक्षणं तेष्वपक्षता।
निराकृते बाधनतः शेषेऽलक्षणवृत्तितः ॥८६॥ साध्याभ्युपगमः पक्ष इति पक्षलक्षणम वतिष्ठते । तथा च तेषु शास्त्रेष्टादिषु पञ्चसु व्याव]षु मध्ये निराकृते प्रत्यक्षादिबाधिते बाधनतोऽपक्षता विरुद्धार्थी निराकृतस्य पक्षविधानात्। शेषे शास्त्रष्टे वादिनानिष्टे साधने च सिद्धे साथयितुमिष्ट एष्यमाणे सिद्धे च साध्यविपरीतेप्रस्तुते चोक्तमात्रे लक्षणस्य साध्यत्वेनेप्सितत्वस्यावृत्तितोऽपक्षता सिद्धेति परिपूर्णमिदमपि लक्षणं ॥ (८६)
ननु यथा सत्यर्थे भ्यो 'वर्तमाने कुविधानादीप्सितशब्दो वर्तमानमिच्छा- 89a माह। तथेष्टशब्दोपि तत्र एषिष्यमाणे पक्षत्वमप्रसक्तमेव तत्किं प्रमाणसमुच्च य लक्षणेऽवधारणं कृतमित्याह। ... स्वयमिष्टाभिधानेन गतार्थेप्यवधारणे।
कृत्यान्तेनाभिसम्बन्धादुक्तं कालान्तरच्छिदे ॥८॥ स्वयमिष्ट इत्यनयोः पदयोरभिधानेनावधारणे निपाता] गते प्रतीतेपि कृत्यान्तेन निर्देश्य शब्देन सर्व्वकालसम्बन्धयोग्याभिधायिनामिसम्बन्धादिष्टशब्दस्यावर्त्तमानकालेच्छाविषयस्यापि पक्षत्वं स्यात्। यथा । आगतो देवदत्तो द्रष्टव्य इति. (1) यदाङगमिष्यति तदा द्रक्ष्यत इत्यर्थः। अतो वर्तमानकालात् कालान्तरस्य भविष्यदादेः साध्ये साध्येच्छाविषयस्य च्छिवे प्रतिषेधार्थमुक्तमवषारणं स्वरूपेणैवेति । (८७) यस्मात् कृत्यान्तेनाभिसम्बन्धात् कालसामान्यवृत्तिः (1)
इहानङ्गमिषेनिष्ठा तेनेप्सितपदे पुनः । अङ्गमेव तयाऽसिद्धहेत्वादि प्रतिषिष्यते ॥८॥
'मतिबुद्धिपूजार्थेभ्यः।