________________
४२ प्र० वा० वृत्तौ० (४ परिच्छेदः) पक्षो मवितुं नार्हति धर्मिण: साध्यत्वेनासिद्धतायां ' हेतोरभावात्। विशेषस्य धर्मिणो दृष्टान्ते ऽसम्भवात् (1) अन्वयाभावाच्च धर्मी पक्षः कत्तुं न शक्यते ।(८१)
नन्वयं दोषस्तयोर्हेतुदृष्टान्तयोर्न तु पक्षस्य ॥ तथा हि (1) ....उत्तरावयवापेक्षो न दोषः पक्ष इष्यते ।
तथा हेत्वादिदोषोपि पक्षदोषः प्रसज्यते ॥२॥ साधनवाक्यस्य पक्षादुत्तरेऽवयवे हेतुदृष्टान्तादिकेऽपेक्षा यस्यासौ बोषः पो नेष्यते हेतुदृष्टान्तसम्बन्धित्वात् तस्य । यदि तूत्तरावयवापेक्षोपि पक्षस्य . बाधनात् पक्षदोष उच्यते तथा सति हेत्वादिदोषोपि पक्षदोषः प्रसज्यते (1८२)
सर्वैः पक्षस्य बाधातस्तस्मात् तन्मात्रसङ्गिनः ।
पक्षदोषा मता नान्ये प्रत्यक्षादिविरोधवत् ॥८॥ -सहेत्वादिदोषैः पक्षस्य बाधात् तस्मात् तन्मात्रसङ्गिनः पक्षमात्रसम्बद्धा दोषाः पक्षदोषा मताः। नान्येऽवयवान्तरापेक्षाः प्रत्यक्षादिविरोषवत्। यथा प्रत्यक्षाविवाषितत्वमवयवान्तरानपेक्षं पक्षदोषः। (८३) तस्माद् (0) -
हेत्वादिलक्षणैर्बाध्यं मुक्त्वा पक्षस्य लक्षणम् । ___ उच्यते परिहारार्थमव्याप्तिव्यतिरेकयोः ॥८४॥ .
हेत्वादीनां लक्षणबाध्यं परिहर्तव्यं दोषमन्वयविरोधादिकं मुक्त्वा पक्षमाअनुषङ्गिणोरव्याप्तिव्यतिरेकयोः परिहारार्थ पक्षलक्षणमुच्यते व्यतिरेक आषि* क्यमभिव्याप्तिरित्यर्थः ॥ (८४) तत्र येन पदेन यद् दूषणं परिह्रियते तदाह ।
स्वयनिपातरूपाख्या व्यतिरेकस्य बाधिकाः। - सहानिराकृतेनेष्टश्रुतिरव्याप्तिबाधनी ॥८५॥
स्वयञ्च निपातञ्च एवं रूपं स्वरूपञ्चाख्या श्रुतयः सहानिराकृतेन पदेन व्यतिरेकस्यातिव्याप्ताधिकाः । स्वयंशब्देन शास्त्रष्टस्य निपातेनासिद्धस्यापि साधनत्वेनोक्तस्य स्वरूपशब्देन सिद्धस्य । निराकृतशब्देन प्रत्यक्षादि
'वामयासिपा। 'अन्यथा हेत्वादिलक्षणं निविषयं स्यात्। .