________________
अन्यथा स्वयंशब्दोऽनर्थकः
असाध्यतामथ प्राह सिद्धादेशेन धर्मिणः । स्वरूपेणैव निर्देश्य इत्यनेनैव तद्गतं ॥ ७८ ॥
अथ सिद्धादेशेन प्रसिद्धार्थवाचकेन स्वयंशब्देन धर्मिणोऽसाध्यतां प्राह । यथाऽस्ति प्रधानं भेदानामनुपदर्शनादिति । इदमप्ययुक्तं । यस्मात् स्वरूपेण साध्यत्वेनैव निर्देश्य इत्यनेन पक्षलक्षणावयवेनैव च तद्धर्मिणः सिद्धस्यासाध्यत्वं गतं प्रतीतं ॥ ( ७८)
तथा ह्ययुमिष्टोऽनिराकृतः पक्ष इत्यनेन ( 1 )
1
सिद्धसाधनरूपेण निर्देशस्य हि सम्भवे साध्यत्वैनेव निर्देश्य इतीदं फलवद् भवेत् ॥७९॥
सिद्धस्य सिद्ध रूपेण निर्देशस्य धर्मवचन' स्यासिद्धस्यापि साधनरूपेण 88b निर्देशस्य सिद्धवचनस्य पक्षत्वसम्भवे हि तत्प्रतिषेधं विदधत् साध्यत्वेनैव निर्देश्य इतीवं फलवद् भवेत् । साध्यस्यैव निर्देशः पक्ष इति सिद्धस्य धर्मिणोऽसिद्धस्य च साधनत्वेनोक्तस्य निरासः ॥ ( ७९ )
किञ्च (1)
अनुमानस्य सामान्यविषयत्वञ्च वरिणतम् । इहैवं न ह्यनुक्तेपि किश्चित् पते विरुध्यते ||८०||
अनुमानस्य सामान्यविषयत्वं स्वयमाचार्येण वर्णितं ( 1 ) यदि च धर्मी पक्षः तदा तस्य स्वलक्षणत्वात् सामान्यविषयता व्याहन्येत । किञ्चह पक्षलक्षण एव' मुक्तक ( मे ) णानुक्तेपि स्वयंशब्दे सिद्धधर्म्यसिद्धसाधनव्यवच्छेदार्थे किञ्चित् पक्षे प्रतिपाद्ये न विरुध्यते ॥ ( ८० )
नन्वनुक्ते स्वयंशब्दे पक्षलक्षणं ( 1 )
४४१
· कुर्याच्चेद् धर्मिणं साध्यं ततः किन्तन्न शक्यते । कस्माद्धेत्वन्वयाभावान्न च दोषस्तयोरपि ॥८१॥
धर्मिणं साध्यं कुर्यादिति दोषः । ततो धर्मिणः पक्षत्वप्रसङ्गात् किन्दूषणं । तद्धमिपक्षत्वं कत्तुं न शक्यत इति अशक्यतादूषणं । कस्मात् कारणाद् धर्मी
१ असिद्धधर्मपरिहारेण सिद्धमिंग्रहमाह ।
२ धर्म्येव प्रधानमसिद्धः क्वास्तित्वं साध्यं ।
३
तद्धयाकार एव ।
५६