________________
४४०
प्र० वा. वृत्ती० (४ परिच्छेदः) चारदर्शनादिना शास्त्रेषु सफलधर्मकलापसाध्यत्वादन्यं सिद्धान्तमाकाशगुणत्वरहितानित्यतादिकं ग्रहीतुं किन्न लभते (1) इच्छाधीनत्वे नियमायोगात् । तस्मात् स्व यंग्रहणं शास्त्रेच्छाप्रवृत्त्यर्थमित्ययुक्तं ॥ (७४) नन्विष्टस्यापि स्वेच्छयैव साध्यतापरिग्रहः सिद्ध इति व्यर्थं स्वयंग्रहणमित्याह।
दृष्टेविप्रतिपत्तीनामत्राकार्षीत् स्वयंश्रुतिम् ।
इष्टाक्षतिमसाध्यत्वमनवस्थाञ्च दशयन् ॥७५॥ शास्त्रकारस्येष्टं साध्यमिति विप्रतिपत्तीनां दृष्टस्तन्निराकणार्थमत्र पक्षलक्षणे स्वयंश्रुतिमाचार्योऽकार्षीत् । शास्त्रेष्वाकाशगुणत्वासिद्धावपि वादीष्टस्यामति शास्त्रेष्टस्यासाध्यत्वं शास्त्रेष्टधर्मान्तरासिद्धौ हेतुबलप्रसिद्धसाध्यबाधने ' गन्धे -भू गुणताबाधा यां शब्दे कृतकत्वमनित्यत्वसाधनं विरुद्धं स्यादित्यादि कामनवस्थाञ्च परस्य दर्शयन्नाचा र्यः स्वयंश्रुतिमकार्षीदिति पूर्वेण
समयाहितभेदस्य परिहारेण धर्मिणः।
प्रसिद्धस्य गृहीत्यों जगादान्यः स्वयंश्रुतिम् ॥७६॥ समयेन । सिद्धान्तेनाहित आरोपितो भेदो विशेष आकाशगुणत्वादिर्यस्य तस्य धर्मिणः परिहारेणागमनिरपेक्षप्रमाणबलात् प्रसिद्धस्य धर्मिणः शब्दमात्रादेगेहीतिरित्यर्थः प्रयोजनं यस्यास्तां स्वयंश्रुतिमन्यो ' जगाद। स्वं प्रसिद्धो धर्मी कार्यो नागमसिद्ध इत्यर्थः। (७६) ___ अत्राह। - विचारप्रस्तुतेरेव प्रसिद्धःसिद्ध आश्रयः।
स्वेच्छाकल्पितभेदेषु पदार्थेष्वविवादतः ॥७॥ - मिणि साध्यधर्मस्य भावाभावविचारप्रस्तुतेरेवागममनपेक्ष्य प्रसिद्ध आश्रयो धर्मी सिद्धः स्वेच्छया कल्पितो भेदो विशेषो येषां तेषु पदार्थेष्वविवादतो विवा दाभावात् । न हि कल्पितभेदे मिणि कश्चित् प्रेक्षावान् कस्यचिद् धर्मस्य साधनं बाधनं वेहते (1) किन्तु प्रमाणप्रतीते वस्तुनि। अतस्तदर्थमपि स्वयंग्रहणमनुपयुक्तं ॥ (७७)
'तसम्बद्धानित्यत्वे बाषाभ्युपगमे। -तत्परिहतावप्येवं विरोथः स्यादित्यनवस्था।
टीकाकारकल्पितार्थदूषणायाह।