________________
अन्यथा स्वयंशब्दोऽनर्थकः
४३९ अनीप्सितमसाध्यञ्चेद् वादिनान्योप्यनीप्सितः।
धर्मोऽसाध्यस्तदाऽसाध्यं बाधमानं विरोधि किम् ॥७१॥ शास्त्राभ्युपगमेपि वादिनाऽनीप्सितमसाध्यं चेत्। एवन्ताकाशगुण- 88a त्वादिरपि धर्मो वादिना साध्यत्वेनानीप्सितोऽसाध्यः स्यात्। तदा तदसाध्यमाकाशगुणत्वं बाधमानं कृतकत्वं किं कस्माद् विरोधि । (७१)
(२) अन्यथा स्वयंशब्दोऽनर्थकः किञ्च (1)
पक्षलक्षणबाह्यार्थः स्वयंशब्दोप्यनर्थकः ।
शास्त्रेष्विच्छाप्रवृत्त्यर्थों यदि शङ्का कुतोन्वियम् ॥७२॥ यदि शास्त्राभ्युपगतत्वं पक्ष लक्षणं तदा स्वयंशब्दोपि पक्षलक्षणबाह्यार्थी भिन्नाभिधेयोऽनर्थकः स्यात् । शास्त्राभ्युपगमे शास्त्रेष्टस्य साध्यताप्राप्तौ वादीष्टमात्रं साध्यं नान्यदिति हि स्वयंशब्दस्य प्रयोजनं। शास्त्रेष्टमात्रस्य तु साध्यत्वे निष्फलमे व तत्। शास्त्रेष्विच्छया प्रवृत्त्यर्थः २ स्वयंशब्दो यदि कथ्यते स्वयंशब्दमन्तरेण शास्त्रमिच्छया न ग्रहीतव्यमिति शङ्कयं कुतो न हेतोर्जाता। येन तन्निवृत्त्यर्था स्वयंश्रुतिर्वर्ण्यते ॥ (७२)
सोनिषिद्धः प्रमाणेन गृह्णन् केन निवार्यते ।
निषिद्धश्चत् प्रमाणेन वाचा केन प्रवर्त्यते ॥७३॥ स वादी प्रमाणेन शास्त्रार्थबाधकेनानिषिद्धः शास्त्रं गृह्णन् केन निवार्यते न केनचित्। यतः स्वयंग्रहणं शास्त्रं ग्राहयत् सफलं स्यात् । प्रमाणेन चेच्छास्त्रार्थबाधकेन निषिद्धो वादी वाचा स्वयंशब्देन शास्त्राभ्युपगमे केन लक्षणक; प्रवर्त्यते न केनचित् ॥(७३) - किञ्च (1)
पूर्वमप्येष सिद्धान्तं स्वेच्छयैव गृहीतवान् ।
किञ्चिदन्यं स (तु) पुनर्ग्रहीतुं लभते न किम् ॥४॥ एष वादी पूर्वमपि स्वेच्छेयैव सिद्धान्तं क णा दा दिप्रणीतं गृहीतवान् । न त्वन्यपुराणादिबलात्। स कथमिच्छया शास्त्रोद्दिष्ट (ङ) किञ्चिद् धर्मव्यभि
'शास्त्रार्थः सर्वः साध्यः। २ स्वीकृतशास्त्रं मुक्त्वा वादकाले शास्त्रान्तरमिच्छया लभ्यतेङ्गीकर्तु।